This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
अनिरुद्धोऽप्रतिरथः
प्रद्युम्नोऽमितविक्रमः ॥ ८१ ॥
 
3
 
अर्चिष्मन्तो यदीयेनाचिषा चन्द्रसूर्यादयः स एव मुख्य:
अर्चिष्मान् । सर्वलोकाचित: विरिश्चयादिभिरग्यचिंतः इति
अर्चितः । कुम्भवदस्मिन् सर्वं प्रतिष्ठितमिति कुम्भः । गुण-
त्रयातीततया विशुद्धवासावात्मेति विशुद्धात्मा । स्मृतिमा
त्रेण पापानां क्षपणात् विशोधनः । चतुर्व्यूहेषु चतुर्थो व्यू-
हः अनिरुद्धः; न निरुध्यते शत्रुभिः कदाचिदिति वा ।
प्रतिरथ: प्रतिपक्षोऽस्य न विद्यत इति अप्रतिरथः । प्रकृष्टं
द्रविणं द्युम्नमस्खेति प्रद्युम्नः ; चतुर्व्यूहात्मा वा । अमितोऽतु-
लितो विक्रमोऽस्य इति अमितविक्रमः, अहिंसितविक्रमो
 
वा ॥
 
कालनेमिनिहा वीरः
 
शौरिः शूरजनेश्वरः ।
 
त्रिलोकात्मा त्रिलोकेशः
 
११७
 
केशवः केशिहा हरिः ॥ ८२ ॥
 
कालनेमिमसुरं निजघानेति कालनेमिनिहा । वीरः शू-
र: । शूरकुलोद्भवत्वात शौरिः । शूरजनानां वासवादीनां