This page has not been fully proofread.

११६
 
श्रीविष्णुसहस्रनाम-
उदीर्णः सर्वतश्चक्षु-
रनीशः शाश्वतस्थिरः ।
 
भूशयो भूषणो भूति-
विशोकः शोकनाशनः ॥ ८० ॥
 
सर्वभूतेभ्यः समुद्रिक्तत्वात् उदीर्णः । सर्वतः सर्वे स्वचै-
तन्येन पश्यतीति सर्वतश्चक्षुः, 'विश्वतश्चक्षुः' इति श्रुतेः ।
न विद्यतेऽस्येश इति अनीशः, 'न तस्येशे कश्चन' इति
श्रुतेः। शश्वद्भवन्नपि न विक्रियां कदाचिदुपैति इति शाश्व-
तस्थिरः इति नामैकम् । लङ्कां प्रति मार्गमन्वेषयन् सा-
गरं प्रति भूमौ शेते इति भूशयः । स्वेच्छावतारैः बहुभिः भू-
मिं भूषयन् भूषणः । भूतिः भवनं सत्ता, विभूतिर्वा ; सर्व-
विभूतीनां कारणत्वाद्वा भूतिः । विगतः शोकोऽस्य परमान-
न्दैकरूपत्वादिति विशोकः । स्मृतिमात्रेण भक्तानां शोकं
नाशयतीति शोकनाशनः ॥
 
अर्चिष्मानर्चितः कुम्भो
 
विशुद्धात्मा विशोधनः ।