This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
मिलक्षणं श्रेयः, तच्च परस्यैव रूपमिति श्रेयः । श्रियोऽस्य
सन्तीति श्रीमान् । त्रयाणां लोकानाम् आश्रयत्वान् लोक-
त्रयाश्रयः ॥
 
११५
 
स्वक्षः स्वङ्गः शतानन्दो
नन्दिज्र्ज्योतिर्गणेश्वरः ।
 
विजितात्माविधेयात्मा
 
सत्कीर्तिच्छिन्नसंशयः ॥ ७९ ॥
 
"
 
शोभने पुण्डरीकाभे अक्षिणी अस्येति स्वक्षः । शोभना-
न्यङ्गानि अस्येति स्वङ्गः । एक एव परमानन्द उपाधिभेदा -
च्छता भिद्यत इति शतानन्दः 'एतस्यैवानन्दस्खान्यानि
भूतानि मात्रामुपजीवन्ति' इति श्रुतेः । परमानन्दविग्रहो
नन्दिः । ज्योतिर्गणानामीश्वरः ज्योतिर्गणेश्वरः । तमेव
भान्तमनुभाति सर्वम्' इति श्रुतेः, 'यदादित्यगतं तेज: '
इत्यादिस्मृतेश्च । विजित आत्मा मनः येन सः विजितात्मा ।
न केनापि विधेयः आत्मा स्वरूपमस्येति अविधेयात्मा ।
सती अवितथा कीर्तिरस्येति सत्कीर्तिः । करतलामलकव-
त्सर्वे साक्षात्कृतवतः क्वापि संशयो नास्तीति छिन्नसंशयः ॥