This page has not been fully proofread.

११४
 
श्रीविष्णुसहस्रनाम-
6
 
वक्षाः । अस्य वक्षसि श्रीरनपायिनी वसतीति श्रीवासः ।
अमृतमथने सर्वान् सुरासुरादीन् विहाय श्रीरेनं पतित्वेन
वरयामासेति श्रीपतिः । श्रीः परा शक्तिः, तस्याः पतिरिति
वा, 'परास्य शक्तिर्विविधैव श्रूयते' इति श्रुतेः । ऋग्य-
जुःसामलक्षणा श्रीर्येषां तेषां सर्वेषां श्रीमतां विरिश्चया-
दीनां प्रधानभूतः श्रीमतां वरः, 'ऋचः सामानि यजूषि ।
सा हि श्रीरमृता सताम्' इति श्रुतेः ॥
 
श्रीदः श्रीशः श्रीनिवासः
 
श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः
 
श्रीमाँल्लोकत्रयाश्रयः ॥ ७८ ॥
 
श्रियं ददाति भक्तानामिति श्रीदः । श्रिय ईशः श्रीशः ।
श्रीमत्सु नित्यं वसतीति श्रीनिवासः । श्रीशब्देन श्रीमन्तो
लक्ष्यन्ते । सर्वशक्तिमये अस्मिन् अखिला: श्रियो निधी-
यन्ते इति श्रीनिधिः । कर्मानुरूपेण विविधाः श्रियः सर्व-
भूतानां विभावयतीति श्रीविभावनः । सर्वभूतानां जननीं
श्रियं वक्षसि वहन् श्रीधरः । स्मरतां स्तुवताम् अर्चयतां
च भक्तानां श्रियं करोतीति श्रीकरः । अनपायिसुखावा-