This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
हितः गोहितः ;
 
गोर्भूमेः भारावतरणेच्छया शरीरग्रहणं
कुर्वन्वा गोहितः । गोर्भूम्याः पतिः गोपतिः । रक्षको
जगत इति गोप्ता । स्वमायया स्वमात्मानं संवृणोतीति वा
गोप्ता । सकलान् कामान् वर्षुके अक्षिणी अस्येति, वृषभो
धर्मः स एव वा दृष्टिरस्येति वृषभाक्षः । वृषो धर्म. प्रियो
यस्य सः वृषप्रियः; 'वा प्रियस्य' इति पूर्वनिपात विकल्प -
विधानात् परनिपात: ; वृषश्चासौ प्रियश्चेति वा ॥
 
अनिवर्ती निवृत्तात्मा
 
संक्षेसा क्षेमकृच्छिवः ।
 
श्रीवत्सवक्षाः श्रीवासः
 
श्रीपतिः श्रीमतां वरः ॥ ७७ ॥
 
११३
 
देवासुर संग्रामान्न निवर्तत इति अनिवतीं; वृषप्रिय-
त्वाद्धर्मान्न निवर्तत इति वा । स्वभावतो विषयेभ्यो निवृत्त
आत्मा मनः अस्येति निवृत्तात्मा । विस्तृतं जगत् संसार-
समये सूक्ष्मरूपेण संक्षिपन संक्षेप्ता । उपात्तस्य परिरक्षणं
करोतीति क्षेमकृत् । स्वनामस्मृतिमात्रेण पावयन् शिवः ॥
इति नाम्नां षष्टं शतं विवृतम् ॥
 
श्रीवत्ससंज्ञं चिह्नमस्य वक्षसि स्थितमिति श्रीवत्स-
S. M. B. 8