This page has not been fully proofread.

श्रीविष्णुसहस्रनाम -
 
मयितेति वा शमः । विषयसुखेष्वसङ्गतया शान्तः, निष्कलं
निष्क्रियं शान्तम्' इति श्रुतेः । प्रलये नितरां तत्रैव तिष्ठन्ति
भूतानीति निष्ठा । समस्ताविद्यानिवृत्तिः शान्तिः । साह्मैव
परमुत्कृष्टमयनं स्थानं पुनरावृत्तिशङ्कारहितमिति पाराय-
णम् । पुंलिङ्गपक्षे बहुव्रीहिः ॥
 
११२
 
शुभाङ्गः शान्तिदः स्रष्टा
 
कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गौसा
 
वृषभाक्षो वृषप्रियः ॥ ७६ ॥
 
सुन्दरां तनुं धारयन शुभाङ्गः । रागद्वेषादिनिर्मोक्षलक्ष-
णां शान्ति ददातीति शान्तिदः । सर्गादौ सर्वभूतानि ससर्जे-
ति स्रष्टा । कौ भूम्यां मोदत इति कुमुदः । कोः क्षितेर्वल-
नात् संसरणात् कुवलं जलम्, तस्मिन् शेत इति कुवलेशयः;
'शयवासवासिष्वकालात्' इति अलुक् सप्तम्याः ;
लयस्य बदरीफलख
 
कुव.
 
मध्ये शेते तक्षक:, सोऽपि तस्य
 
विभूतिरिति वा हरिः कुवलेशयः; को भूम्यां वलते संध्र-
यते इति सर्पाणामु कुवलम, तस्मिन शेषोदरे शेते इति
 
कुवलेशयः । गवां वृद्धयर्थं गोवर्धनं धृतवानिति गोभ्यो