This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
१११
 
ब्रह्मा । वाचस्पतिर योनिजः ; वाचः विद्यायाः पतिः वाच -
स्पतिः, जनन्यां न जायत इति अयोनिज: ; इति सविशेष-
णमेकं नाम ॥
 
त्रिसामा सामगः साम
निर्वाणं भेषजं भिषक् ।
संन्यासकृच्छमः शान्तो
 
निष्ठा शान्तिः परायणम् ॥ ७५ ॥
 
देवव्रतसमाख्यातैः त्रिभिः सामभिः सामगैः स्तुत इति
 
6
 
त्रिसामा । साम गायतीति सामगः, 'वेदानां सामवेदोऽस्मि '
इति भगवद्वचनात् । सामवेदः साम । सर्वदुः खोपशमलक्षणं
परमानन्दरूपं निर्वाणम् । संसाररोगस्यौषधं भेषजम् । सं
साररोगनिर्मोक्षकारिणीं परां विद्यामुपदिदेश गीतास्विति
भिषक्, 'भिषक्तमं त्वा भिषजां शृणोमि' इति श्रुतेः ।
मोक्षार्थं चतुर्थमाश्रमं कृतवानिति संन्यासकृत् । संन्यासिनां
प्राधान्येन ज्ञानसाधनं शममाचष्ट इति शमः, यतीनां प्र-
शमो धर्मो नियमो बनवासिनाम् । दानमेव गृहस्थानां शुश्रू-
षा ब्रह्मचारिणाम्' इति स्मृतेः । 'तत्करोति तदाचष्टे'
इति णिचि पचाद्यचि कृते रूपं शम इति । सर्वभूतानां श-