2022-09-09 02:54:54 by ambuda-bot
This page has not been fully proofread.
११०
श्री विष्णुसहस्रनाम -
ज्योतिरा
आदित्यः । ज्योतिषि सवितृमण्डले स्थितो
दित्यः । द्वन्द्वानि शीतोष्णादीनि सहत इति सहिष्णुः ।
गतिश्चासौ सत्तमश्चेति गतिसत्तमः ॥
सुधन्वा खण्डपरशु-
दर्दारुणो द्रविणप्रदः ।
दिवःस्पृसर्वव्यासो
वाचस्पतिरयोनिजः ॥ ७४ ॥
शोभनमिन्द्रियादिमयं शार्ङ्ग धनुरस्यान्तीति सुधन्वा ।
शत्रूणां खण्डनात् खण्ड: परशुरस्य जामदग्न्याकृतेरिति
खण्डपरशुः; अखण्डः परशुरस्येति वा । सन्मार्गविरोधिनां
दारुणत्वात् दारुणः । द्रविणं वाञ्छितं भक्तेभ्य: प्रददातीति
द्रविणमदः । दिवः स्पर्शनात् दिवःस्पृक् । सर्वदृशां सर्व-
ज्ञानां विस्तारकृद्वयासः सर्वदृग्व्यासः । अथवा, सर्वा च
सा केति सर्वक् सर्वाकारं ज्ञानम्; सर्वस्य दृष्टित्वाद्वा
सर्वक । ऋग्वेदादिविभागेन चतुर्धा वेदा व्यस्ताः कृताः,
आद्यो वेद एकविंशतिधा कृतः, द्वितीय: एकोत्तरशतधा कृ
तः, सामवेदः सहस्रधा कृतः,
अथर्ववेदो नवधा शाखाभेदेन
कृत: । एवम् अन्यानि च पुराणानि व्यस्तान्यनेनेति व्यासः