This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
वृक्ष इवाचलतया स्थित इति वृक्षः,
 
&
 
'वृक्ष इव स्तब्ध
दिवि तिष्ठत्येकः' इति श्रुते । व्याप्त्यर्थादनतेर्धातो पुष्क-
रोपपदादण्प्रत्यये पुष्कराक्ष: ; हृदयपुण्डरीके चिन्तितः स्व-
रूपेण प्रकाशत इति वा पुष्कराक्षः । सृष्टिम्थित्यन्त कर्माणि
मनसैव करोतीति महामनाः ; 'मनसैव जगत्मृष्टि संहारं
च करोति यः' इति विष्णुपुराणे ॥
 
भगवान्भगहानन्दी
बनमाली हलायुधः ।
आदित्यो ज्योतिरादियः
सहिष्णुर्गतिसत्तमः ॥ ७३ ॥
 
.
 
• ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । वैराग्यस्याथ
मोक्षम्य षण्णां भग इतीरणा सोऽस्यास्तीति भगवान् ।
' उत्पत्ति प्रलयं चैव भूतानामागति गतिम् । वेत्ति विद्याम-
विद्यां च स वाच्यो भगवानिति इति विष्णुपुराणे । ऐश्वर्या-
दिकं संहारसमये हन्तीति भगहा । सुखस्वरूपत्वात् आन-
न्दी; सर्वसपत्समृद्धत्वान् आनन्दी वा । भूततन्मात्ररूपां
बैजयन्त्याख्यां वनमालां वहन वनमाली । हलमायुधमस्येति
हलायुधो बलभद्राकृति । अदित्यां कश्यपाद्वामनरूपेण जात