2022-09-09 02:54:54 by ambuda-bot
This page has not been fully proofread.
  
  श्रीविष्णुसहस्रनाम
  
भावसाक्षित्वान् गहनो वा वाङ्मनसागोचरत्वात् गुप्तः,
'एष मर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते' इति श्रुतेः ।
मनस्तत्त्वात्मकं चक्रं बुद्धितत्त्वात्मिकां गदाम् । धारयन्
लोकरश्नार्थमुक्तः चक्रगदाधरः ॥
   
१०८
   
वेधाः स्वाङ्गोऽजितः कृष्णो
दृढः संकर्षणोऽच्युतः ।
वरुणो वारुणो वृक्षः
   
पुष्कराक्षो महामनाः ॥ ७२ ॥
   
विधाता वेधाः । पृषोदरादित्वात्साधुत्वम् । स्वयमेव
कार्यकरणे अङ्गं सहकारीति स्वाङ्गः । न केनाप्यवतारेषु
जित इति अजितः । कृष्णः कृष्णद्वैपायन:, 'कृष्णद्वैपायनं
व्यासं विद्धि नारायणं प्रभुम । को ह्यन्य: पुण्डरीकाक्षान्म-
हाभारतकृद्भवेत्' इति विष्णुपुराणवचनात् । स्वरूपसाम-
र्ध्यादेः प्रच्युत्यभावान् दृढः । संहारसमये युगपत्प्रजा: संक-
पंतीति संकर्षणः, न योनति स्वरूपादित्यच्युतः, संकर्षणो
ऽच्युतः इति नामैकं सविशेषणम् । स्वरश्मीनां संवरणात्सा-
यंगत: सूर्यो वरुणः, ' इमं मे वरुण श्रुधी हवम्' इति
मन्त्रवर्णात । वरुणस्यापत्यं वसिष्ठोऽगस्त्यो वा वारुणः ।