This page has not been fully proofread.

श्रीविष्णुसहस्रनाम -
 
विद्यत इति अनन्दः, 'यो वै भूमा तत्सुखं नाल्पे सुख-
मस्ति ' इति श्रुतेः । सत्या धर्मज्ञानादयोऽस्येति सत्यधर्मा ।
त्रयो विक्रमास्त्रिषु लोकेषु क्रान्ता यस्य सः त्रिविक्रमः,
' त्रीणि पदा विचक्रमे' इति श्रुतेः ; त्रयो लोकाः क्रान्ता
येनेति वा त्रिविक्रमः । ' त्रिरित्येव त्रयो लोका: कीर्तिता
मुनिसत्तमैः । क्रमते तांत्रिधा सर्वास्त्रिक्रमोऽसि जनार्दन '
इति हरिवंशे ॥
 
महर्षिः कपिलाचार्य:
कृतज्ञो मेदिनीपतिः ।
 
त्रिपदस्त्रिदशाध्यक्षो
 
महाशृङ्गः कृतान्तकृत् ॥ ७० ॥
 
"
 
महर्षिः कपिलाचार्यः इति सविशेषणमेकं नाम । महां-
श्वासावृषिश्चेति महर्षि:, कृत्स्नस्य वेदस्य दर्शनात्; अन्ये
तु वेदैकदेशदर्शनात् ऋषय: । कपिलश्चासौ सांख्यय
शुद्धतत्त्वविज्ञानस्याचार्यश्चेति कपिलाचार्यः, 'शुद्धात्मतत्त्व-
विज्ञानं सांख्यमित्यभिधीयते' इति व्यासस्मृतेः, 'ऋषि
प्रसूतं कपिलं महान्तम्' इति श्रुतेश्च, 'सिद्धानां कपिलो
मुनिः' इति स्मृतेश्च । कृतं कार्य जगत्, ज्ञ आत्मा, कृतं