This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
नात् । देशतः कालत वस्तुतचापरिच्छिन्नत्वान् अनन्ता-
त्मा संहृत्य सर्वभूतान्येकार्णवं जगत्कृत्वा अधिशेते महो-
दधिमिति महोदधिशयः । अन्तं करोति भूतानामिति
अन्तकः । तत्करोति तदा' इति णिचि ण्वुलि अका-
देशः ॥
 
अजो महार्हः स्वाभाव्यो
जितामित्र: प्रमोदनः ।
 
आनन्दो नन्दनोऽनन्दः
सत्यधर्मा त्रिविक्रमः ॥ ६९ ॥
 
१०५
 
आत् विष्णो: अजायत इति काम: अजः । महः पूजा
तदर्हत्वान् महार्हः । स्वभावेनैवाभाव्यो नित्यनिष्पन्नरूपत्वात्
इति स्वाभाव्यः । जिता अमिता अन्तर्वर्तिनो रागद्वेषा-
दयो बाह्याश्च रावणकुम्भकर्णशिशुपालादय: येनासौ जिता-
मित्रः । स्वात्मामृतर मास्वादान्नित्यं प्रमोदते, ध्यायिनां
ध्यानमात्रेण प्रमोदं करोतीति वा प्रमोदनः । आनन्दः
म्वरूपमस्येति आनन्दः, 'एतस्यैवानन्दस्यान्यानि भूतानि
मात्रामुपजीवन्ति' इति श्रुतेः । नन्दयतीति नन्दनः ।
सर्वाभिरुपपत्तिभिः समृद्धो नन्दः । सुखं वैषयिकं नास्य
 
"