2022-09-09 02:54:54 by ambuda-bot
This page has not been fully proofread.
स्तोत्रभाष्यम् ।
कपिश्चासाविन्द्रश्चेति कपिर्वराह, वाराहं वपुरास्थित:
कपीन्द्रः; कपीनां वानराणामिन्द्रः कपीन्द्रः राघवो वा ।
भूरयो बह्वथः यज्ञदक्षिणाः धर्ममर्यादां दर्शयतो यज्ञं कुर्वतो
विद्यन्त इति भूरिदक्षिणः ॥
सोमपोऽमृतपः सोमः
पुरुजित्पुरुसत्तमः ।
विनयो जयः सत्यसंधो
दाशार्हः सात्वतां पतिः ॥ ६७ ॥
सोमं पिबति सर्वयज्ञेषु यष्टव्यदेवतारूपेणेति सोमपः;
धर्ममर्यादां दर्शयन्यजमानरूपेण वा सोमपः । स्वात्मामृतरसं
पिबन् अमृतपः; असुरै: ह्रियमाणममृतं रक्षित्वा देवान
पाययित्वा स्वयमप्यपिबदिति वा । सोमरूपेणौषधी : पोषयन्
सोमः; उमया सहित ः शिवो वा । पुरून् बहून् जयतीति
पुरुजित् । विश्वरूपत्वात् पुरुः, उत्कृष्टत्वात् सत्तमः, पुरु-
सौ सत्तमति पुरुसत्तमः । विनयं दण्डं करोति दुष्टा-
नामिति विनयः । समस्तानि भूतानि जयतीति जयः ।
सत्या संघा संकल्पः अस्येति सत्यसंधः, 'सत्यसंकल्प:'
इति श्रुतेः । दाशो दानं तमर्हतीति दाशार्हः; दशाईकु-