This page has not been fully proofread.

श्री विष्णुसहस्रनाम -
 
इति वा भूतमहेश्वरः । सर्वभूतान्यादीयन्तेऽनेनेति आदि:,
आदिश्चासौ देवश्चेति आदिदेवः । सर्वान्भावान्परित्यज्य
आत्मज्ञानयोगैश्वर्ये महति महीयते, तस्मादुच्यते महादेवः ।
प्राधान्येन देवानामीशो देवेश: । देवान् बिभर्तीति देवभृत्
शक्रः, तस्यापि शासितेति देवभृगुरुः; देवानां भरणात्,
सर्वविद्यानां च निगरणाद्वा देवभृगुरुः ॥
 
उत्तरो गोपतिर्गौप्ता
 
ज्ञानगम्य: पुरातनः ।
शरीरभूतभृद्भोक्ता
 
कपीन्द्रो भूरिदक्षिणः ॥ ६६ ॥
 
,
 
जन्मसंसारबन्धनादुत्तरतीति उत्तरः; सर्वोत्कृष्ट इति
वा, ' विश्वस्मादिन्द्र उत्तरः' इति श्रुतेः । गवां पालनागोप-
वेषधरो गोपतिः; गौर्मही, तस्याः पतित्वाद्वा । समस्तभू-
तानि पालयन रक्षको जगतः इति गोप्ता । न कर्मणा न
ज्ञानकर्मभ्यां वा गम्यते, किंतु ज्ञानेन गम्यते इति ज्ञान-
सम्यः । कालेनापरिच्छिन्नत्वात् पुरापि भवतीति पुरातनः ।
शरीरारम्भकभूतानां भरणात् प्राणरूपधरः शरीरभूतभृत् ।
पालकत्वात भोक्ता; परमानन्दसंदोह संभोगाद्वा भोक्ता ॥
इति नाम्नां पञ्चमं शतं विवृतम् ॥
 
J