This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
'
 
विष्णुः अविज्ञाता । आदित्यादिगता अंशवोऽस्येत्ययमेव
मुख्यः सहस्रांशुः, ' येन सूर्यस्तपति तेजसेद्ध : ' इति श्रुते .
यदादित्यगतं तेज: ' इति स्मृतेश्च । विशेषेण शेषदिग्गज-
भूधरान् सर्वभूतानां घातून दुधातीति विधाता । नित्य-
निष्पन्नचैतन्यरूपत्वात् कृतलक्षण: ; कृतानि लक्षणानि
शास्त्राण्यनेनेति वा; 'वेदा: शास्त्राणि विज्ञानमेतत्सर्व
जनार्दनात्' इत्यत्रैव वक्ष्यति; सजातीयविजातीयव्यवच्छे-
दकं लक्षणं सर्वभावाना कृतमनेनेति वा ; आत्मनः श्रीव-
त्सलक्षणं वक्षसि तेन कृतमिति वा कृतलक्षणः ॥
 
गभस्तिनेमिः सत्त्वस्थः
सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो
 
देवेशो देवभृद्गुरुः ॥ ६५ ॥
 
१०१
 
गभस्तिचक्रस्य मध्ये सूर्यात्मना स्थित इति गभस्ति-
नेमिः । सत्त्वं गुणं प्रकाशकं प्राधान्येनाधितिष्ठतीति, सर्वप्रा-
णिषु तिष्ठतीति वा सत्त्वस्थः । विक्रमशालित्वात्सिंहवत् सिंहः;
नृशब्दलोपेन 'सत्यभामा भामा' इतिवद्वा सिंहः । भू-
तानां महानीश्वरः, भूतेन सत्येन स एव परमो महानीश्वर