This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
सर्वदर्शी विमुक्तात्मा
सर्वज्ञो ज्ञानमुत्तमम् ॥ ६१ ॥
 
सर्वयज्ञस्वरूपत्वात् यज्ञः; सर्वेषां देवानां तुष्टिकारको
;
यज्ञाकारेण प्रवर्तत इति वा, 'यज्ञो वै विष्णुः' इति श्रुतेः ।
यष्टुब्योऽध्ययमेवेति इज्य: । 'ये यजन्ति मखै' पुण्यैर्देव-
तादीन्पितॄनपि । आत्मानमात्मना नित्यं विष्णुमेव यजन्ति ते'
इति हरिवंशे । सर्वासु देवतासु यष्टव्यासु प्रकर्षेण यष्टव्यो
मोक्षफलदातृत्वादिति महेज्यः । यूपसहितो यज्ञः ऋतुः ।
आसत्युपैतिचोदनालक्षणं सत्रम् ; सतस्त्रायत इति वा ।
सतां मुमुक्षूणां नान्या गतिरिति सतां गतिः । सर्वेषां प्राणि-
नां कृताकृतं सर्वे पश्यति स्वाभाविकेन बोधेनेति सर्वदशीं ।
स्वभावेन बिमुक्त आत्मा यस्येति, विमुक्तश्वासावात्मा चेति
वा विमुक्तात्मा, ' विमुक्तश्च विमुच्यते' इति श्रुतेः । सर्व-
चासौ ज्ञश्चेति सर्वज्ञः, 'इदं सर्वे यदयमात्मा' इति श्रुतेः ।
ज्ञानमुत्तममित्येतत्सविशेषणमेकं नाम, ज्ञानं प्रकृष्टमजन्यम
अनवच्छिन्नं सर्वस्य साधकतममिति ज्ञानमुत्तमं ब्रह्म, · सत्यं
ज्ञानमनन्तं ब्रह्म' इति श्रुतेः ॥
 
सुव्रतः सुसुखः सूक्ष्मः
सुघोष: सुखदः सुहृत् ।
 
M.B7
 
S