2022-09-09 02:54:52 by ambuda-bot
This page has not been fully proofread.
श्रीविष्णुसहस्रनाम -
आप्तकामत्वात् निर्वेदोऽस्य न विद्यत इति अनिर्विण्णः ।
वैराजरूपेण स्थितः स्थविष्टः ' अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यो'
इति श्रुतेः । अजन्मा अभूः; अथवा 'भू सत्तायाम्' इत्यस्य
संपदादित्वात् विप् ; मही वा । यूपे पशुवत् तत्समाराध-
नात्मका धर्माः तत्र बध्यन्त इति धर्मः । यस्मिन्नर्पिता
मखा यज्ञा निर्वाणलक्षणफलं प्रयच्छन्तो महान्तो जायन्ते
सः महामखः । ' नक्षत्रतारकै. सार्धं चन्द्रसूर्यादयो ग्रहा. ।
वायुपाशमयैर्वन्धैर्निबद्धा ध्रुवसंज्ञिते' स ज्योतिषां चक्रं भ्राम-
यंस्तारामयस्य शिंशुमारस्य पुच्छदेशे व्यवस्थितो ध्रुवः । तस्य
शिंशुमारस्य हृदये ज्योतिश्चक्रस्य नेमिवत्प्रवर्तकः स्थितो
विष्णुरिति नक्षत्रनेमिः शिंशुमारवर्णने 'विष्णुर्हृदयम'
इति स्वाध्यायब्राह्मणे श्रूयते । चन्द्ररूपेण नक्षत्री, नक्षत्रा-
णामहं शशी' इति भगवद्वचनात् । समस्तकार्येषु समर्थ:
क्षमः ; क्षमत इति वा, 'क्षमया पृथिवीसम: ' इति वाल्मी-
किवचनात् । सर्वविकारेषु क्षपितेषु स्वात्मनावस्थित इति
क्षामः । 'क्षायो मः' इति निष्ठातकारस्य मकारादेशः । सृ-
प्रयाद्य सम्यगीते इति समीहनः ॥
7
९६
यज्ञ इज्यो महेज्यश्र
ऋतुः सत्रं सतां गतिः ।
6