This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
विस्तारः स्थावरस्थाणुः
 
प्रमाणं बीजमव्ययम् ।
अर्थोऽनर्थो महाकोशो
 
महाभोगो महाधनः ॥ ५९ ॥
 
विस्तीर्यन्ते समस्तानि जगन्त्यस्मिन्निति विस्तारः ।
स्थितिशीलत्वात स्थावर :; स्थितिशीलानि पृथिव्यादीनि
तिष्ठन्त्यस्मिन्निति स्थाणुः; स्थावरचासौ स्थाणुश्च स्थावर-
स्थाणुः । संविदात्मना प्रमाणम् । अन्यथाभावव्यतिरेकेण
कारणमिति बीजमव्ययम्, सविशेषणमेकं नाम । सुखरू-
पत्वात्सर्वैरत इति अर्थ: । न विद्यते प्रयोजनम आप्त-
कामत्वात् अस्येति अनर्थः । महान्तः कोशा अन्नमयादयः
आच्छादका अस्येति महाकोशः । महान् भोगः सुखरूपो-
ऽस्येति महाभोगः । महत् भोगसाधनलक्षणं धनमभ्येति
 
महाधनः ॥
 
अनिर्विष्णः स्थविष्ठोऽभू-
धर्मयूपो महामखः ।
नक्षत्रनेमिर्नक्षत्री
 
क्षमः क्षामः समीहनः ॥ ६० ॥