2022-09-09 02:54:52 by ambuda-bot
This page has not been fully proofread.
श्रीविष्णुसहस्रनाम-
ऋतुः सुदर्शनः कालः
परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो
विश्रामो विश्वदक्षिणः ॥ ५८ ॥
शोभनं
सर्वमिति काल:,
"
"
कालात्मना ऋतुशब्देन लक्ष्यत इति ऋतुः
निर्वाणफलं दर्शनं ज्ञानमस्येति, शुभे दर्शने ईक्षणे पद्मपत्रायते
अस्येति, सुखेन दृश्यते भक्तैरिति वा सुदर्शनः । कलयति
काल: कलयतामहम्' इति भगवद्वच-
नात् । परमे प्रकृष्टे स्वे महिनि हृदयाकाशे स्थातुं शील-
मस्येति परमेष्ठी, 'परमेष्टी विभ्राजते' इति मन्त्रवर्णात ।
शरणार्थिभिः परितो गृह्यते सर्वगतत्वात् परितो ज्ञायते
इति वा पत्रपुष्पादिकं भक्तैरर्पितं परिगृहातीति वा परिग्र
हृः । सूर्यादीनामपि भयहेतुत्वात् उग्रः, 'भीषोदेति सूर्य.
इति श्रुतेः । संवसन्ति भूतान्यस्मिन्निति संवत्सरः । जगद्रू-
पेण वर्धमानत्वात् सर्वकर्माणि क्षिप्रं करोतीति वा दक्षः ।
संसारसागरे क्षुत्पिपासादिषडूर्मिभिस्तरङ्गिते अविद्याद्यैर्महा-
केरौ: मदादिभिरुपक्लेशैश्च वशीकृतानां विश्रान्ति काङ्क्षमाणा-
नां विश्रामं मोक्षं करोतीति विश्रामः । विश्वस्मात् दक्षिण:
शक्तः, विश्वेषु कर्मसु दाक्षिण्याद्वा विश्वदक्षिणः ॥
,