This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
संश्लेषयन् तेषां गतिं प्रतिवनातीति । 'मया संश्लेषिता भू-
मिरद्भिर्व्योम च वायुना । वायुश्च तेजसा सार्धं वैकुण्ठत्वं
ततो मम' इति शान्तिपर्वणि । सर्वस्मात्पुरा सदनात्सर्वपाप-
स्य सादनाद्वा पुरुषः; ' स यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान्पाप्मन
औषत्तस्मात्पुरुष: ' इति श्रुते ; पुरि शयनाद्वा पुरुषः,
वा अयं पुरुषः सर्वासु पूर्षु पुरि शयः' इति श्रुतेः । प्राणि-
ति क्षेत्रज्ञरूपेण प्राणात्मना चेष्टयन्वा प्राणः । ' चेष्टां करोति
वमनस्वरूपी' इति विष्णुपुराणे । खण्डयति प्राणिनां प्राणान
प्रलयादिष्विति प्राणदः । प्रणौतीति प्रणवः, 'तस्मादोमिति
प्रणौति' इति श्रुतेः । प्रणम्यते इति वा प्रणवः, ' प्रणम-
न्तीह यं वेदास्तस्मात्प्रणव उच्यते' इति सनत्कुमारवचनात् ।
प्रपञ्चरूपेण विस्तृतत्वात् पृथुः । हिरण्यगर्भसंभूतिकारणं
हिरण्मयमण्डं यद्वीर्यसंभूतम्, तदस्य गर्भ इति हिरण्यगर्भः ।
त्रिदशशत्रून्हन्तीति शत्रुघ्नः । कारणत्वेन सर्वकार्याणां व्याप
नान् व्याप्तः । वाति गन्धं करोतीति वायुः, पुण्यो ग-
न्धः पृथिव्यां च ' इति भगवद्वचनात् । 'अधो न क्षीयते
जातु यस्मात्तस्मात् अधोक्षजः' इति उद्योगपर्वणि; द्यौरक्षम्
पृथिवी चाधः, तयोर्यस्मादजायत मध्ये वैराजरूपेण इति वा
अधोक्षजः; अधोभूते ह्यक्षगणे प्रत्यग्रूपप्रवाहिते। जायते
तस्य वै ज्ञानं तेन अधोक्षज उच्यते ॥
 
6
 
९३