This page has not been fully proofread.

श्रीविष्णुसहस्रनाम-
रमणीयं वपुर्वहन्वा दाशरथी रामः । विरामोऽवसानं प्राणि-
नामस्मिन्निति विरामः । विगतं रतमस्य विषयसेवायामिति
विरतः । यं विदित्वा अमृतत्वाय कल्पन्ते योगिनो मुमुक्षवः
स एव पन्था मार्गः, 'नान्यः पन्था विद्यतेऽयनाय' इति
श्रुतेः । मार्गेण सम्यग्ज्ञानेन जीव: परमात्मतया नीयत
इति नेयः । नयतीति नयः नेता । मार्गो नेयो नयः इति
त्रिरूपः परिकल्प्यते । नास्य नेता विद्यते इति अनयः ॥
इति नाम्नां चतुर्थ शतं विवृतम् ॥
 
९२
 
विक्रमशालित्वात् वीरः । शक्तिमतां विरिश्चचादीनामपि
शक्तिमत्त्वात् शक्तिमतां श्रेष्ठः । सर्वभूतानां धारणात धर्मः,
'अणुरेष धर्मः' इति श्रुतेः; धर्मैराराध्यत इति वा धर्मः ।
श्रुतयः स्मृतयश्च यस्याज्ञाभूताः स एव सर्वधर्मविदामुत्तमः
इति धर्मविदुत्तमः ॥
 
वैकुण्ठः पुरुषः प्राणः
 
प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो
 
व्याप्ती वायुरघोक्षजः ॥ ५७ ॥
विविधा कुण्ठा गते : प्रतिहति: विकुण्ठा, विकुण्ठाया:
कर्तेति वैकुण्ठः, जगदारम्भे विश्लिष्टानि भूतानि परस्परं