2022-09-09 02:54:51 by ambuda-bot
This page has not been fully proofread.
स्तोत्रभाष्यम् ।
बहुलग्रहणात् कर्तरि ल्युट् प्रत्ययः । अत्र भूतानां संस्थिति:
प्रलयात्मिका, समीचीनं स्थानमस्येति वा संस्थानः ।
ध्रुवादीनां कर्मानुरूपं स्थानं ददातीति स्थानदः । अवि
नाशित्वात् ध्रुव । परा ऋद्धिर्विभूतिरस्येति परद्धिं ।
परा मा शोभा अस्येति परम:, सर्वोत्कृष्टो वा अनन्या-
धीन सिद्धित्वात्, संविदात्मतया स्पष्टः परमस्पष्टः । परमा-
नन्दैकरूपत्वात् तुष्टः । सर्वसंपूर्णत्वात् पुष्टः । ईक्षणं दर्शनं
यस्य शुभं शुभकरं मुमुक्षूणां मोक्षदं भोगार्थिनां भोगई
सर्वसंदेह विच्छेदकारणं पापिनां पावनं हृदयग्रन्थेविच्छेद-
कर सर्वकर्मणां क्षपणम अविद्यायाश्च निवर्तकं सः शुभे-
क्षणः, 'भियते हृदयग्रन्थिः' इत्यादिश्रुतेः ॥
रामो विरामो विरतो
मार्गो नेयो नयोऽनयः ।
वीरः शक्तिमतां श्रेष्टो
९.१
धर्मो धर्मविदुत्तमः ॥ ५६ ॥
नित्यानन्दलक्षणेऽस्मिन् योगिनो रमन्त इति रामः;
' रमन्ते योगिनो यस्मिन्नित्यानन्दे चिदात्मनि । इति राम-
पढ़ेनैतत्परं ब्रह्माभिधीयते' इति पद्मपुराणे ; स्वेच्छया