This page has not been fully proofread.

९०
 
श्री विष्णुसहस्रनाम -
 
स्तुत्यैः, सर्वत्र गच्छति तस्मान् देवः, 'एको देवः' इति
मन्त्रवर्णान् । श्रीर्विभूतिर्यस्योदरान्तरे जगद्रूपा यस्य गर्भे
स्थिता सः श्रीगर्भः । परमश्चासौ ईशनशीलश्चेति परमेश्वरः.
' समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्' इति भगवद्वचनात् ।
जगदुत्पत्तौ साधकतमं करणम् । उपादानं निमित्तं च
कारणम् । कर्ता स्वतन्त्रः । विचित्रं भुवनं क्रियत इति
विकर्ता स एव भगवान्विष्णुः । स्वरूपं सामर्थ्य चेष्टितं वा
तस्य ज्ञातुं न शक्यत इति गहनः । गूहते संवृणोति स्वरू-
पादि निजमाययेति गुहः ॥
 
व्यवसायो व्यवस्थानः
 
संस्थानः स्थानदो ध्रुवः ।
 
परर्द्धिः परमस्पष्ट-
स्तुष्टः पुष्टः शुभेक्षणः ॥ ५५ ॥
 
संविन्मात्रस्वरूपत्वात् व्यवसाय: । अस्मिन् व्यव-
स्थिति: सर्वस्येति व्यवस्थान: ; लोकपालाद्यधिकारजरा-
युजाण्डजोद्भिज्जब्राह्मणक्षत्रियवैश्यशूद्रावान्तरवर्णब्रह्मचारिगृह-
स्थवानप्रस्थसंन्यासलक्षणाश्रमतद्धर्मादिकान् विभज्य करो-
ति इति वा व्यवस्थान: । 'कृत्यल्युटो बहुलम' इति