2022-09-09 02:54:51 by ambuda-bot
This page has not been fully proofread.
स्तोबभाप्यम् ।
न्तरे । तेन दामोदरो देवः' इति व्यासवचनाद्वा दामोदरः ।
।
सर्वानभिभवति क्षमत इति वा सहः । मही गिरिरूपेण
धरति इति महीधरः । 'वनानि विष्णुगिरयो दिशश्च' इति
विष्णुपुराणे । स्वेच्छया धारयन्देहं महान्ति उत्कृष्टानि
भोजनानि भागजन्यानि भुङ्क्ते इति महाभागः; महान
भागः भाग्यमस्यावतारेष्विति वा महाभागः । वेगो जव:
तद्वान वेगवान्, 'अनेजदेकं मनसो जवीय. ' इति श्रुतेः ।
संहारसमये विश्वमआतीति अमिताशनः ॥
उद्भवः क्षोभणो देवः
श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता
9
विकर्ता गहनो गुहः ॥ ५४ ॥
प्रपञ्चोत्पत्त्युपादानकारणत्वात् उद्भवः । उद्गतो भवात्
संसारादिति वा । सर्गकाले प्रकृति पुरुषं च प्रविश्य क्षोभ-
यामासेति क्षोभणः । 'प्रकृतिं पुरुषं चैव प्रविश्यात्मेच्छया
हरि: । ओभयामास भगवान्सर्गकाले व्ययाव्ययौ' इति
विष्णुपुराणे । यतो दीव्यति क्रीडति सर्गादिभिः, विजिगीषते
सुरादीन् व्यवहरति सर्वभूतेषु, आत्मतया द्योतते, स्तूयते