This page has not been fully proofread.

श्रीविष्णुसहस्रनाम -
 
तस्माद्धरिरहं स्मृतः' इति भगवद्वचनात् । सर्वैर्लक्षणैः
 
प्रमाणै: लक्षणं ज्ञानं जायते यत्तद्विनिर्दिष्टं सर्वलक्षणलक्षणम्,
तत्र साधुः सर्वलक्षणलक्षण्यः तस्यैव परमार्थत्वात् । लक्ष्मी-
रस्य वक्षसि नित्यं वसतीति लक्ष्मीवान् । समितिं युद्धं
जयतीति समितिंजयः ॥
 
८८
 
विक्षरो रोहितो मार्गों
हेतुर्दामोदरः सहः ।
महीधरो महाभागो
 
वेगवानमिताशनः ॥ ५३ ॥
 
विगतः क्षरो नाशो यस्यासौ विक्षरः । स्वच्छन्दतया
रोहितां मूर्ति मत्स्यमूर्ति वा बहन् रोहितः । मुमुक्षवः तं
देवं मार्गयन्ति इति मार्ग:; परमानन्दो येन प्राप्यते स
मार्गः इति वा । उपादानं निमित्तं च कारणं स एवेति हेतुः ।
दमादिसाधनेन उदर: उत्कृष्टा मतिर्या, तथा गम्यत इति
दामोदरः । 'दमादामोदरं विदुः' इति महाभारते । यशो-
दया दानोदरे बद्ध इति वा । ' तयोर्मध्यगतं बद्धं दाम्ना
गाढं तयोदरे । ततश्च दामोदरतां स ययौ दामबन्धनात्
इति ब्रह्मपुराणे । 'दामानि लोकनामानि तानि यस्योदरा-