This page has not been fully proofread.

स्तोत्रभाप्यम् ।
 
अतुलः शरभो भीमः
समयज्ञो हविर्हरिः ।
सर्वलक्षणलक्षण्यो
 
लक्ष्मीवान्समितिंजयः ॥ ५२ ॥
 
'न त्व-
"
 
तुला उपमानमस्य न विद्यते इति अतुलः, 'न तस्य
प्रतिमास्ति यस्य
नाम महद्यशः' इति श्रुतेः,
त्समोऽस्त्यभ्यधिकः कुतोऽन्यः' इति स्मृतेश्च । शराः शरी-
राणि, शीर्यमाणत्वात् तेषु प्रत्यगात्मतया भातीति शरभः ।
बिभेत्यस्मात्सर्वमिति भीमः, 'भीमादयोऽपादाने' इति पाणि-
निस्मृते: । सन्मार्गवर्तिनाम् अभीमः इति वा । सृष्टिस्थि-
तिसंहारसमयवित्, षट् समयान् जानातीति वा समयज्ञः ;
सर्वभूतेषु समत्वं यजनमस्येति वा, 'समत्वमाराधनमच्यु-
तस्य' इति प्रह्लादवचनात् । यज्ञेषु हविर्भागं हरतीति हवि-
र्हरिः, 'अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च' इति
भगवद्वचनात् । अथवा, हूयते हविषा असाविति हविः,
'अवघ्नन्पुरुषं पशुम्' इति हविष्वं श्रूयते । स्मृतिमात्रेण पापं
संसारं वा पुंसां हरतीति, हरितवर्णत्वाद्वा हरिः, 'हरा-
म्यघं च स्मर्तॄणां हविर्भागं ऋतुष्वहम् । वर्णश्च मे हरिर्वेति
 
6