This page has not been fully proofread.

श्रीविष्णुसहस्रनाम-
माचरति । धर्मत्राणाय शतमावर्तनानि प्रादुर्भावा अस्येति
शतावर्तः ; नाडीशते प्राणरूपेण वर्तत इति वा । पद्मं
हस्ते विद्यते इति पद्मी पद्मनिभे ईक्षणे दृशावस्खेति पद्म
 
निभेक्षणः ॥
 
८६
 
पद्मनाभोऽरविन्दाक्षः
 
पद्मगर्भः शरीरभृत् ।
 
महर्द्धिद्ध वृद्धात्मा
 
महाक्षो गरुडध्वजः ॥ ५१ ॥
 
पद्मस्य नाभौ मध्ये कर्णिकायां स्थित इति पद्मनाभः ।
अरविन्दसदृशे अक्षिणी अस्येति अरविन्दाक्षः पद्मस्य
हृदयाख्यस्य मध्ये उपास्यत्वात् पद्मगर्भ: । पोषयन्नन्नरूपेण
प्राणरूपेण वा शरीरिणां शरीराणि धारयतीति शरीरभृत् ;
स्वमायया शरीराणि बिभर्तीति वा । महती ऋद्धिर्विभू-
तिरस्येति महर्द्धि: । प्रपञ्च रूपेण वर्धमानत्वात् ऋद्धः ।
वृद्धः पुरातन आत्मा यस्येति वृद्धात्मा । महती अक्षिणी
महान्त्यक्षीणि वा अस्येति महाक्षः । गरुडाङ्कः ध्वजो
यस्येति गरुडध्वजः ॥