This page has been fully proofread once and needs a second look.

ईशावास्योपनिषद्भाष्यम् ।
 
एवमात्मविद पुत्राद्येपणात्रयसन्यासेनात्मज्ञाननिष्ठतया
आत्मा रक्षितव्य इत्येष वेदार्थ । अथेतरस्य अनात्मज्ञतया
त्मग्रहणाशक्तस्य इदमुपदिशति मन्त्र
 
कुर्वन्नेवेह कर्माणि
जिजीविषेच्छतꣳ समा' ।
एवं त्वयि नान्यथेतोऽस्ति
न कर्म लिप्यते नरे ॥ २ ॥
 
कुर्वन्नेव निर्वर्तयन्नेव इह कर्माणि अग्निहोत्रादीनि जिजी-
विषेत् जीवितुमिच्छेत् शत शतसंख्याका समा सवत्सरा
न् । तावद्धि पुरुषस्य परमायुर्निरूपितम् । तथा च प्राप्तानु-
वादेन यज्जिजीविषेच्छत वर्षाणि तत्कुर्वन्नेव कर्माणीत्येतद्वि
धीयते । एवम् एवप्रकारे त्वयि जिजीविषति नरे नरमात्रा -
भिमानिनि इत एतस्मादग्निहोत्रादीनि कर्माणि कुर्वतो वर्त
मानात्प्रकारात् अन्यथा प्रकारान्तर नास्ति, येन प्रकारेणाशु-
भ कर्म न लिप्यते, कर्मणा न लिप्यस इत्यर्थ । अत शा-
स्त्रविहितानि कर्माण्यग्निहोत्रादीनि कुर्वन्नेव जिजीविषेत् ॥
 
कथ पुनरिदमवगम्यते -- पूर्वेण मन्त्रेण सन्यासिनो ज्ञान-
निष्ठोक्ता, द्वितीयेन तदशक्तस्य कर्मनिष्ठेति । उच्यते-