This page has not been fully proofread.

पृथिव्या जगत् तत्सर्वम् । स्वेनात्मना ईशेन प्रत्यगात्मतया
अहमेवेद सर्वमिति परमार्थसत्यरूपेणानृतमिद सर्व चराचर-
माच्छादनीय परमात्मना । यथा चन्दनागर्वादेरुदकादि-
सबन्धजक्लेदा दिजमौपाधिक दौर्गन्ध्य तत्स्वरूपनिघर्षणेना-
च्छाद्यते स्वेन पारमार्थिकेन गन्धेन तद्वदेव हि स्वात्मन्य-
ध्यस्त स्वाभाविक कर्तृत्वभोक्तृत्वादिलक्षण जगद्वैतरूप पृथि-
व्याम् जगत्यामित्युपलक्षणार्थत्वात्सर्वमेव नामरूपकर्माख्य
विकारजात परमार्थसत्यात्मभावनया व्यक्त स्यात् । एवमी
श्वरात्मभावनया युक्तस्य पुत्राद्येषणात्रयसन्यासे एवाधिकार,
न कर्मसु । तेन त्यक्तेन त्यागेनेत्यर्थ । न हि त्यक्तो मृत
पुत्रो भृत्यो वा आत्मसबन्धिताभावादात्मान पालय-
ति । अतस्त्यागेनेत्ययमेवाथ । भुञ्जीथा पालयेथा । एव
त्यतैषणस्त्व मा गृध गृधिम् आकाङ्क्षा मा कार्षी धनविष
याम् । कस्य स्वित् कस्यचित् परस्य स्वस्य वा धन मा
काङ्क्षीरित्यर्थ । स्विदित्यनर्थको निपात । अथवा, मा
गृध । कस्मात् ? कस्य स्विद्धनम् इत्याक्षेपार्थ । न कस्य
चिद्धनमस्ति, यद्द्वृध्येत । आत्मैवेद सर्वमितीश्वरभावनया
सर्व त्यक्तम् । अत आत्मन एवेद सर्वम्, आत्मैव च सर्वम् ।
अतो मिथ्याविषया गृधिं मा कार्षीरित्यर्थ ॥