This page has been fully proofread once and needs a second look.

परत्वात् । तस्मादात्मनोऽनेकत्वकर्तृत्वभोक्तृत्वादि च अशुद्ध-
त्वपापविद्धत्वादि चोपादाय लोकबुद्धिसिद्ध कर्माणि विहि
तानि । यो हि कर्मफलेनार्थी दृष्टेन ब्रह्मवर्चसादिना अदृष्टेन
स्वर्गादिना च द्विजातिरह न काणत्वकुणित्वाद्यनधिकारप्रयो-
जकधर्मवानित्यात्मान मन्यते सोऽधिक्रियते कर्मस्विति ह्यधि-
कारविदो वदन्ति । तस्मादेते मन्त्रा आत्मनो याथात्म्यप्रका-
शनेन आत्मविषय स्वाभाविककर्मविज्ञान निवर्तयन्त शोक-
मोहादिससारधर्मविच्छित्तिसाधनमात्मैकत्वादिविज्ञानमुत्पाद-
यन्तीति । एवमुक्ताधिकार्यभिधेय सबन्धप्रयोजनान्मत्रान्स-
क्षेपतो व्यारयास्याम
 
ईशावास्यमिद सर्व
यत्किं च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा
मा गृध कस्य स्विद्धनम् ॥ १ ॥
 
ईशा ईष्टे इति ईट्, तेन ईशा । ईशिता परमेश्वर पर
मात्मा सर्वस्य । स हि सर्वमीष्टे सर्वजन्तूनामात्मा सन्
प्रत्यगात्मतया । तेन स्वेन रूपेणात्मना ईशा वास्यम् आच्छा
दनीयम् । किम् ? इद सर्व यत्किं च यत्किंचित् जगत्या