This page has been fully proofread twice.

॥ ईशावास्योपनिषत् ॥
 
श्रीमच्छंकरभगवत्पादविरचितेन
भाष्येण सहिता ।
 
'ईशा वास्यम्' इत्यादयो मन्नात्रा कर्मस्व-
विनियुक्ता, तेषामकर्मशेषस्यात्मनो याथा-
त्म्यप्रकाशकत्वात् । याथात्म्य चात्मन शु-
द्धत्वापापविद्धत्वैकत्वनित्यत्वाशरीरत्वसर्वगत-
त्वादि वक्ष्यमाणम् । तच्च कर्मणा विरुध्यत
इति युक्त एवैषा कर्मस्वविनियोग । न ह्येवलक्षणमात्मनो
याथात्म्यम् उत्पाद्य विकार्यम् आप्य सस्कार्यं वा कर्तृभो-
कृक्तृरूप वा, येन कर्मशेषता स्यात्, सर्वासामुपनिषदामात्म-
याथात्म्यनिरूपणेनैवोपक्षयात्, गीताना मोक्षधर्माणा चैव-