vyasayogicaritam /284
This page has not been fully proofread.
७४
भिषेकमायो महीभुजा तत्रतत्र ससृपुर्निपातिताः ।
दीपिताखिल दिगंतभित्तिनाधिक्कृताइव मुनींद्रतेजसा ॥
ऊर्जस्वलैर्बहुविधैर्मणिभिर्व्यराजीत्प्राकारितस्स भगवान्प्रमुखो यतीनां ।
लोकाभिमोदनविचक्षणवर्षशंसी नानारुचापरिधिनेव नवांशुमाली ॥
तत्र भगवानर्थसरणिलंघनजंघालान्युपादानानीव तेजसां त्रयाणां,
असदृशस्वतेजोबिभिक्षिषया क्ष्मातलमापतितानि सतारकदंबानीव ग्रह
निकुरंबाणि, पुष्पाणीव भूपतिभक्तिविमललताया, स्स्फुलिंगानीवं
निजतपस्तनूनपात, स्समुदं (तम) रीचिप्रपंचवंचितसभामंडलमंगलमणि
दीपिका समुन्मेषयत्नानि क्षोणीसुरयत्नविश्राणितावशेषाणि तानि राशि
कारयित्वा नानादिशांचलेभ्यस्समागतानां कुंडलाय, तुंडिराधिपानां,
केयूरायकेरलानां, हारायपारशीकानां, मकुटायलाटानां, अंगुलीयकाय
कलिंगानां कंकणायकोंकणानां निष्कायतुरुष्कानां चूडनायगौडानां
तरलाय चोलानां, कांचीगुणाय पांचालानां अन्येषामपि भूभुजां वदा
न्याग्रणी समिक्षुः प्रादिक्षत् ॥
हस्तांभोरुहमानतांगुलिदलं विस्तारयद्दातृतां
विद्राजिषु तस्य तत्र सदसिव्यासस्य योगीशितुः ।
युष्माभिर्भुविपंचजन्मभिरियं भोक्तुं ध्रुवंशक्यते
रत्नानां पटलीति सूचनमिव व्यातन्वदालक्ष्यत ॥
संभावनावाप्तिसमुन्मदानां कवीश्वराणां कमनीयवाचां ।
हल्लोहलैस्सानृपतेस्सभासी दुल्लोलकल्लोलितजालमार्ग ॥
संपचीस्सकलदिगंतरार्जिताया तादृश्यानेरसमहीपसूनृतायाः ।
ब्यातानीत्समुचितमेषइत्यशेषैस्सश्लाघेसदसिजनै स्सकृष्णरायः ॥
S[चन्म]