2026-03-04 07:06:11 by ambuda-bot

This page has not been fully proofread.

७२
 
घंटास्वनोमध्वमतद्विपस्य त्रयीमयीतिस्तनयित्नुघोषः ।
 
तस्याथतालध्वनिरुज्जजृंभे श्रीव्यासभिक्षोश्शिबिका पुरोगः ॥
यां यामतीत्य स (म ) *निर्विशिखामयासीत्सासासमुत्थितजनांजलिराजपूर्णा ।
उन्नालदंडसरसीरुह कुद्मलानां साधर्म्य केलिमतनिष्ट शरनदीनां ॥
 
राज्ञां सभांक्षौमवितानयुक्तां व्यराजयद्वयास्यतीश्वरोसौ ।
शरत्पयोदावलि संकुलांता माकाशसीमानमिवाब्जबंधुः ॥
तस्मिन्नृपस्सविधमागत इत्यमात्यैस्साकंस भांगणातला त्वरितैरुदस्थात् ।
पूर्वाचलाश्रयिणि पूषण, पद्मवाटात्सौरभ्यपूरइव चंचलचंचरीकैः ॥
 
उत्थाय स निखिलैस्सामंतमहीपालैर्झडिति सीमंतितोपांत
सरणिं नरपतिरात्मानमनुकंपयानुग्रहीतुमापतंतं, कमलबंधुभवनवापिका
सतीर्थमिव कनकचतुरंतयानपरार्ध्यमध्यमध्यासीनं, कालांजनरस निर्णे-
जनसंस्क्रियासमुन्मिषिताक्षरमणिवेदिकायां करकमलमधुपधोरणिकाया
मिव पुस्तक विभागरेखायां निभृतनिक्षिप्तचक्षुषं नासिकानालभाग
प्रतिफलितेनेव नयनयुगलेन स्वच्छतरोपलोचनगोलकेनानुमितवार्धक-
 
दशातिशयंधर्मशास्त्रभूष[†]वरवालहस्तेनेवधवलचामरिकायुगलेनपार्श्वतः
परिवीज्यमानं, वैदिकसरणीनर्तन चरणमणिमंजीर सिंजितैरिव पुरत-
स्सरैः कनकतालध्वनिभिस्सुरपथकटाहं तुंदिलतं, मध्वमुनींद्रप्रकरणै-
रिव मूर्तिमद्भिः शिष्यैर्ब्रह्मसंधैरासेव्यमान परिसरं तं भगवंतं यतिकुंजरं
सरभसमुपसृत्य तच्चरणनखमणिकिरणाजिघ्रावग्रिमभागेन किरीटिना-
महतीमनन्यसुलभां धन्यतामाजहार ॥
 
तत्र भूप शरत्काले राजहंसमिवांबुजे
 
स्वर्णपीठे स्वयंदत्ते व्यासभिक्षु न्यवेशयत् ॥
 
*[मु] + [क]