2026-03-04 07:06:11 by ambuda-bot

This page has not been fully proofread.

७१
 
यावंती विषयाहृता भुजबलं यावत्सपत्नाजिता
यावतश्ववदान्यता करसरोजाताश्रया यावती ।
यावत्यो धनसंपदो गुणगणो यावांश्चयावद्यश
स्तावत्कर्तुमियेष पूजनंमसौ श्रीव्यासभिक्षोर्नृपः ॥
 
इति व्यासयोगिचरिते पंचमोलासः
 
अन्येद्युरेव नृपतिप्रहितः पुरोधास्साकं प्रधानपुरुषैः सचिवैरुपेत्य ।
तं व्यालयोगिनंममुं तपसां निधानं (वि) ( ज्ञापयद्विनयभावविनम्रमौलिः ॥
 
भगवन्निदानीं खलु ॥
 
सतुनृपतिरमात्यै स्सार्धमास्थानमागाइलाभिषु विशिखानां वैजयंत्योनिबद्धाः ।
तरलनव पुष्पास्सर्वतोराजमार्गा गगनतलमशेषं गाहते तूर्यघोषः ॥
 
स्वामिन् भवंतं स्वयमद्यरतैराकांक्षते भूरमणोभिषेक्तुं ।
कूटाग्रभागं कुलभूधरस्य प्रसूनजातैरिव पारिजातः ॥
 
तं भक्तिपल्लवितमागमनोत्सवेन स्वामिन् प्रसीद बहुमंतुमपारकीर्ते ।
पुष्पांजलि: प्रतिकलं भगवन्नरस्य कोणेपि यः कलयते कुलदैवभावं ॥
 
एवंकार, तेन पुरोधः प्रधानेन संप्रार्थ्यमानस्सभगवान् व्यास
तपोनिधिः क्षणं विचिंत्य भक्तवत्सलतया करुणामसृणहृदयः सभाजि -
गमिषया मणिबूसीवरादुदस्थात् ॥
 
गोविंदतापसमुखैः कुशलाग्रगण्यै स्तेवसद्भिरखिलैरनुगम्यमानः ।
मंद मठात्सनिरगाद्वदनारविंदा द्वेदैः पुरस्कृत इव प्रणवो विधातुः ॥
[[व्य] $[सु]