2026-03-04 07:06:11 by ambuda-bot

This page has not been fully proofread.

७०
 
तावत्प्रवेशनविधौ गुरुणानियुक्तैरिशष्यैरुपेत्य विहितावसरः प्रधानः
भक्तया नृपो भगवतः पदपद्म मौलिमवनौ नमयांचकार ॥
 
भूप (यू) * थोपचरितं पुलकोदय श्रीः स्पष्टीभवद्विपुलभक्तिरसप्रचारं ।
दूरीकृता (नि) (कमपृच्छदर्थेगितज्ञो योगीशिता, नवसदागमनस्य पातुं ॥
तुष्यन्नभीष्टां स्वयमेव पृच्छां व्यातन्वते व्यासयतीश्वराय ।
कृत्वांजलिं कृष्णधराधिनाथो विज्ञापयामास विनीतपूर्वं ॥
 
स्वामिन्प्रतिभटवादिविजयेषु भगवद्वचो (i) पलायितमिव स्वदे
(श) गूढविच (रंतं) * सच्छास्त्रसुत्र मजालस्य, प्राणभूतं मायामतस्य, तत्वं
व्यामोहकशब्दाभिधेयस्य, भूमिमनृतस्य, दुष्टपक्षं बंधिग्राहमिव गृहीत्वा
शुकनीयाकारायमपुस्तकायामाबध्य विद्याधरपात्रनामा कलिंगाधिपतिः
कैश्चिदहंयुभिः विपश्चिद्भिः प्रबलितोत्साहो भगवते व्यासयोगिने प्र-
दर्शनीयो दुस्त (1) युक्तिसह विस्तारितोयं महान् ग्रंथइति स्वसेनापति-
करेमह्यं (प्रैषतत्)† ॥ तदवश्यं तमेतं कतिपयैर्दिनैरेव दुर्लंध्याभिर्वचो-
युक्तिभिर्भगवान् शरद्बलाहकमिव झंझाभिश्श (S) कर्तुमर्हतीति पुस्तकां
सन्नि (घां) * संदर्शयामास ॥ व्यासतपोनिधिरपि तामादाय रहसिसूचित
विमतमतामवतिः पुरस्तादेव भूभृतस्तस्य मुहूर्तमात्रे बह्वीभिरतिवज्र-
पाताभिरुपरिदूषणानवप्रकाश (प्र) दायिनीभिर्युक्तिपरांपराभिः शतशः खंड
यित्वा पुनरपि कलिंगाधिपतये झडितिग्रंथमेनं प्रेषयेति तस्मै भूपतये
प्रादात् ॥
 
विलोक्यवाचा विभवं तदी (य्यं ) ) विशेषतो विस्मयमानचेताः
कृष्णक्षितींद्रः कृतसंप्रणामस्तस्मादनुज्ञाप्य सगेहमाप ॥
 
$ [युग्मेसव्यंरस्व] [स्त्व] + [हि ] + [ मि: ] $[शे] *[रत्] + [र]
+ [ प्रैषिषत् ] 8 [कली ] *[धौ] [यं]