2026-03-04 07:06:10 by ambuda-bot

This page has not been fully proofread.

,
 
धर्मेण निरंतर सेवनायेव निजांशपरिकल्पितं विरहासहिष्णुतया मही-
तलमवतीर्णमेव प्राग्जन्मवाह्नराजहंसं व्याख्यामंटपमधिवसंतं कैटभ-
भेदिनाभिपुंडरीकपुटवासिनमिव भगवंतं हिरण्यगर्भं, कलशसागरजठ-
रोदयजुषमिव कमलिनीबंधुं ऐरावतकुंभपीठभास्वरमिव सिंदूरतिलकं
कैलासशैलमेखलाप्रतिफलितमिव कनकगिरिशृंगं, पुरस्कृतयतिकुलानां
पुस्तकविभागालंकृतपाणितलानां वाग्वैखरीनिराकृततया शरणा-
गतानामुत्तुंगानामिव सरस्वतीसुरसरित्पूराणां संख्यावतामप्यगणना-
पदानां कर्मठानामप्यनिवार्ययोगानां गृहमेधिनामंतेवासिनां वेद
शिखरार्थत (त्वमर्थं) व्याकुर्वंतं मध्वमतविजयशंखायमानेन कंठनालघुम-
घुमितेन कालमेघमिव गर्जितेन गगनकटाहमापूरयंतं वामेतरश्रवणा-
(वणी) Sवलंब मौक्तिकाक्षसूत्रेण चक्रवाकावसज्जितमृणालिकावलयेन
नालीकेन वदनेन भासमानं राद्धांतनिर्णयप्रकाशिकया व्याख्यानमुद्रि-
कया पृष्टजन्माभ्यासेनाप्यन्यसूरयः भवद्भिरेतावदपि सादृश्यं न भजे -
रन्निति शिष्यान् प्रतिगणनास्तचक्रमिव प्रकाशयंतं जानुभागनियंत्रित
योगपट्टिकया व्यत्यस्तचरणतया तपनीयवेणुकांडघटितमिव सरस्वती
पीठं तं भगवंतं व्यासयोगिनं रभसादासाद्य विंशकोशस्तदनंतरं कर्णिका
मुकुलचिह्नितकर्णविवरस्कंधावसक्तचर्मकः खर्वपर्वदंड: कालायसनिर्मि-
तेनेव कर्कशेनातिप्रमाणेन वपुषा लक्ष्यमाणः दौवारिको रचितांजलि -
रानमय्यपूर्वकायं प्रश्रयेण दूरतस्थितो व्यजिज्ञपत् ॥
 
द्वारि कृष्णनृपतिस्समेत्य सस्स्वामिनः सहपुरोहितादिभिः ।
दर्शनावसरमीक्षतेधुना पाकशासनइवाब्जजन्मनः ॥
 
†[त्वं ] $ (वाणी)