vyasayogicaritam /274
This page has not been fully proofread.
६४
विद्यापुरीगिरिदरीविहिताधिवासं कीर्तिच्छटासटमुपायचतुष्टयां ।
श्रुत्वैव वीरनरसिंहमहीपतिं तं दिग्वारणैस्सममराति मृगा विबिभ्युः ॥
आरब्धघोरसमराजिर गोचरारिनार जिन स्मित सुधाकर कृष्णरात्रिः ।
तस्यप्रतापसुहृदाकरवालवल्ली श्वश्रूत्वमापसुरवारविलासिनीनां ॥
तत्प्रतापदहनस्य सर्वदक्क्रोड दुर्ललन केलि शालिनः ।
तापभारमिव सोढुमक्षमोनीरधौ सनिममज्जबाडबः ॥
तेन सकलगुणगणमणिखनीभूतेन विवाहविधिनेव प्रकटितकर-
ग्रहणेन चंद्रमसेवान्वर्थराजशब्देन पुरहरेणेवाचलकोदंडेन हेरंबेणेवरण
सहायशरजातेन योगपथेनेव समुज्जृंभमाणप्रतापानलमंडलदुर्निरीक्ष
महावीरपरिवृतेन पोषकेणप्रश्रयस्य, सादिनाराज तुरंगभद्रपीठेन धैर्य-
साम्राज्यस्य, पुण्यकीर्तनेन वसुधाधिपेन, हंसेनेवकमलाकरः, प्रत्यहमुप-
सेव्य कृतयुगसमयइव धर्मैकसहायः कुशध्वजइव श्रुतकीर्तिप्रभावो
देवकीनंदन इव नरकविध्वंसिचरितः लक्ष्मीवक्षोजइवाच्युतप्रतिष्ठापित
पृथुलाग्रहारो, वीणागुणइव श्रुतिमार्गसमुन्मेषणजागरूकः कोकलोकइव
भूयिष्टविप्रयोगो, मलयगिरिरिवसदानंदस्पर्शनो, मन्मथइवसन्निहितसुम-
नोमार्गणो, वक्षरशंकुर्विपक्षाणां, गरलग्रंथिमुकुलः कलिगुणानां, बिरुद -
डिंडिमः पुंडरीकाक्षभक्तेः गिरिकंदरोधैर्यकंठरिवस्य मणिकुंभो मध्वमत
गोपुरस्य, दौवारिकोनियमकोशस्य, भगवान्सतपोनिधिः निरवशेषित
सकलदुर्वादिकुलगर्वतया निराकुलमानसः सकलधर्मजीवातवेतत्वमतस्था-
पनाय तात्पर्यचंद्रिकातर्कतांडवन्यायामृतप्रमुखानि निधिनिकुरंबाणीव
महनीयार्थगर्भितानि नूपुराणीव दृढपदबंधनानि, मुनिकुलानीबाबाधित
[मान:]