vyasayogicaritam /273
This page has not been fully proofread.
६३
क्षोणीवल्लकितल्लजे जितमहामेरुदयास्ताचल
स्थूलालाबुफले विशालतटिनीतंत्रीसमावेल्लिते ।
तन्वानो महतो गुणे कतिपयग्रामान् हसन्नादरं
व्यासो ब्रह्मसभामुदे यतिपतिर्ग्रामान्बहून्व्यातनोत् ॥
तस्मिन्यतौ वितरणेन धनाधिनाथांस्तन्वत्यधिक्षितितलं सकलान्बुधेंद्रान् ।
सर्वज्ञतामपिवन्नविवेद देवः को वा सखेति कुलशैलसुतासहायः ॥
एवमेव स मुहुर्मुहुर्यदुपतिरिव सुभद्रानंदहेतुना विजयेन
क्रमेण विमतमतं खिलीकुर्वाणः सलिलसेचनेनेवारामं वैदिकाचारप्र
वर्तनेन धर्मसंचयमुदंचयन्विश्राणनकुंज र विशदचामरायमाणयशःप्र-
काशो लोकद्वय कुशलागमसाधारणद्वारायमाणचरणारविंदसेविनां शिष्य
वर्गाणां तत्वबोधोपदेशेनानन्यसुलभमुक्तिमत्तकाशिनीघटनपटीयसीं
हरिभक्तिमुद्दामयन् चूडामणिमिव कोटीरो भूपतिसभां भूषयन् भूयसी
समास्सुखमतिष्ठत् । ततस्स महनीययशःप्रचारो नरसनृपतिविक्रम-
गतिनामभिः वीरनरसिंहकूलंकषगुणसंपदः कुमारस्य भुजचंडिमसहचरीं
विधाय महतीं वसुमतीमनवरतमधिसुधर्मममरगणिकागणवीणागुणपथ
पथिकनिजविक्रमभोगावलिश्रवणजनितविस्मयेन पुरुहूतेनाहूत इव
दानवबलविजयाय चारणशातोदरीकरांजलिशतप्रकीर्यमाणनंदन कुसुम
मधुरझरी परिरंभशिशिरीक्रियमाणचत्वरी त्रिदशनगरीं लोचनयोर्गोचरी
चकार ॥
स बभार ततो वसुंधरां चतुरंभोनिधिचारुमेखलां ।
कुलशैलकुलानि केवलं जगतोदिक्वरिभिस्सहांचयत् ॥
तस्याभीक्ष्णजैत्रयात्रा सुखेना धूलीपालीचूलितान् सिंधुबंधून् ।
दानांभोभिस्त्वंगदुत्तुंगभंगैः प्रत्यापत्तिंप्रापयामासपाणिः ॥