vyasayogicaritam /272
This page has not been fully proofread.
६२
केषांचिल्लालांबुनासाक, महंक्रिया प्राशुष्यत् । परेषां स्वेदेन
सममानंदो निरगलत् ॥ इतरेषामाभीलेन सह लज्जा समजनिष्ट ।
अन्येषां विस्मयेन सार्धं साध्वसमवर्तत । एतेषां आत्मनिंदया सत्रा-
स्वमतसंदेहः प्रादुरभूत् । अपरेषां स वासरः स्वप्नसमय इवालक्ष्यत ।
तदनु भगवान्यतिकुलावतंसो व्यासेोपि चेतसा विस्मयभरं शिरसा
श्लाघाकंपं चक्षुषा हर्षबाष्पं वचसा विजयस्तुतिं वपुषापुलकितमुकुलं
पाणिपल्लवेनांजलिं यौगपद्येन विभ्राणेन नरसमहीपालेन पश्यतांप्रत्य-
र्थिनां समक्षमेव समर्पितैः प्रकटितदुग्धडिंडीरपिंडपांडिमो पहसनैर्दुकूल
वसनै र्मेरुतटवास्तव्यचारणोपवन कूपगभीरिम कलहैर्हाटक कटाहैश्च कुरु-
विंदशलाका निर्मितेनाकलितमृदुलशिखावल (य) पिंछदलावली पवित्रेण
धवित्रेण च परिणतामलपृथुल निस्तुलमुक्ताफलखचितया चरणतलपुस्तक
विन्यासकबलिकया मणिपादुकयुगलिकया च विशंकटनिकट तटिनी
तटाक दीर्घिकोदारकेदारिकारामाभिरामैर्ग्रामैः कांचन शिबिका कुंभचामर
विविधजनपदमठालयमणिपीठिकाभिः परिवसितो राजसदनात्सर्वैरपि
सभासद्भिरनुगम्यमानः पुंखानुपुंख विजयतालकोलाहलले लिह्यमानसकल-
दिग्वलयो विस्मयमानहृदयैः पौरजनैः प्रतिविशिखं बहुमान्यमान-
विद्यावैभवो मंदमंदं निजमावासं प्रत्यासदत् ॥
प्रावादुकस्य परिपंथिजनस्य जेता योगीश्वरो नरपतिश्च तथा वदान्यः ।
अन्योन्यमुच्छ्रितकृपारसभक्तिभाजौ व्यत्यस्तवासभवनाविव तावभूतां ॥
धानुष्कवत्तस्य वदान्यभावो न्यपातयद्वद्ध्यशः कलापः ।
पंक्तिंमहावापलतो विमुक्तां सन्मार्गणानां धनलक्ष्मणादौ ॥