2026-03-04 07:06:09 by ambuda-bot

This page has not been fully proofread.

६१
 
गगनतटिनीपूरागभीर ( मध्व) मतांबुधे
प्रतिभटसुधी (प्रज्ञापद्मावलीर्नव) * चंद्रिकाः ॥
 
सुधापरिमिलोर्मिलास्सुरसरिव्यवाहाटी
किरीटतटकुनप्रकटपटवोद्दामराः ।
त्रयीयुवतिचूलिका सुमनसो यतिव्यासरा
जिरोनृपसभाभुवं ध्वनिमयीमिवातन्वत ॥
 
किं वा भूमीधरालीपतनपरवशः प्रौढभोलिघोषः
कल्पांतोज्जुभिझंझाक्षुभितजलनिधिः सार ( हलाहली ) किं ।
 
किं वा दंभोलिकारापतनपरिलुठन्द्भूमिभृद्भीमघोषः
किं घोणीशानघोणा हतबलिसदन प्रोत्कटध्वानलक्ष्मीः ॥
 
इत्युत्प्रेक्षंत वाचा (टि) मरिसुधियो व्यासभिक्षोरुदयां ॥
 
परस्परोज्जृंभितयुक्तिर्गुभाः समुल्लसत्तादृशवरवादाः ।
 
अथ तदानीमुभयेपिधीराः क्षणादिव त्रिंशदहान्यनैषुः ॥
अन्येद्युरेव विस्मयमानैस्सर्वैरपि सभ्यैरुपलाल्यमान वाग्वैखरी-
प्रभावः स भगवान् झटितिप्रयुक्तैरनभिहितप्राद्यैरज्ञानादिभिः पशुपति-
रिव शूल शिरोभिस्त्रिभिः कांश्चिदाख्यायमानवसाग्रहिणी यैरप्राप्तकालप्र-
मुखैर्जनार्दनइव भुजदंडैश्चतुर्भिः कांश्विद्भाषितगृहीतप्रपुरोगमैः फल्गुन
इव शरनिकरैरमोघैर्निग्रहैः कांश्चिद्विमतविबुधलोकान्सलीलमेव निरा-
कुर्वन्निजयशः प्रपंच इव दिशामंडलं महतीं विजयलक्ष्मीं समा-
श्लिषत् ॥ तावदपयशसा सह दीर्घीभवंतं निश्वासं दधतां मध्ये तेषां ॥
 
वैलक्ष्यमारचयतोपि कलिंगसूरेस्तस्य प्रदातृमणिना मुनिना वितीर्णं ।
मध्येनरेंद्रसभमप्रतिभां गतस्य वैवर्ण्यमेव वपुषि प्रकटीबभूव ॥
 
* [ प्रशांबुजावलि ] + [कोलाहल : ] ↑ [ मारभटी]