2026-03-04 07:06:09 by ambuda-bot

This page has not been fully proofread.

६०
 
आडंबरेण महता भुवि दृश्यमानाः सर्वेपि ते युगपदेव धराधिपस्य ।
आमर्दितां सचिवपौरपुरोहिताद्यैरास्थान भूमिमधिरुह्य ततो निषेदुः ॥
वैदेशिकानां सुधियां क्षितीद्रः तादृग्विधामारभटीं समीक्ष्य ।
तं व्यासयोगीशितुरानुभावं जानन्नपि त्रस्त इवावतस्थे ॥
अत्रांतरे शिष्यमुखादाकर्ण्य तथाविदमुदतं ।
 
संप्रेषितेन पुरतो विकलय्य पत्रीं तांशैबिकेन तरसा यतिकुंजरस्य ।
आगच्छतो नृपसभां गगनावगाही तालध्वनिस्समुदजृंभत संभ्रमेण ॥
तदानीं
 
कल्प्य मानजगदद्भुतमोदः कथ्यमानपरतंत्रविभेदः ।
विद्विषामभवदाहितखेदो व्यासयोगिजयतालानिनादः ॥
 
आकर्ण्य तावदवनीरमणेन योगी प्रत्युद्गतिं कृतवता विनयेन दत्ते ।
पीठे, घनाघनइवाद्वितटे न्यषीदन्मंदस्मितोदयतृणीकृत वैरिसंघः ॥
आसनाद्युपचितं महीभुजा व्यासयोगिनममुं विरोधिनः ।
नासहंत इमघोषजादयो वासुदेवमिव पार्थपूजितं ॥
 
ते च दर्पोन्मत्तैर्बिरुद पत्रिकायास्तथाभूतेन छेदने द्विगुणित
रोषावेशा विमतसुमतयो यूथपतिमिव मतंगजाः प्रवावदूकतातिरेकेण
धिषणमपि तृणायमन्वानं बसवाभट्टनामानं कंचनकालिंगमनीषिणं
पुरस्कृत्य भगवता तेन तापसकेसरिणा सह विजिगीषया पक्षद्वयस्थाप-
नावतीं कामपि कथां प्रारभंत ॥ तत्र यथापूर्वं निर्व्यूढेपि सकले
 
संघ ।
 
विकचवदना (i) 1. विवादयिषोर्यते
कुलधवला दंता (वेलाकनवलगु) रितस्ततः ।
 
[ [] 8 [विरेजु]