2026-03-04 07:06:08 by ambuda-bot

This page has not been fully proofread.

५८
 
मनसाप्यपचरंतो व्याधाइव स्वयमेव वयांसि नाशयति । एतस्य किल
वीक्षणमात्रेणाभिमंत्रितया विभूत्या तिलकितनिटिलभागनृपतयः समर
शिरसिकृतवीर्यकुमारवत्प्रतिरिपुललिताकृतीनां भागवतानामुद्दामैः कर-
तलतांडवितमणितालध्वनिभिः परिपूरितसकल दिगंतरालं महातपस-
मुपसृत्य कोटीरकोटितलावलंबिमणिकदंबपरिचुंब्यमानमहीतलः प्रश्रयेण
शतशः प्राणंसीत् । भगवानपि मोदमानमनाः स्मित किशोर केसरिता-
घरकिसलयोवार्षिककलमशा खाभिरिव शोभनफलांतर्वर्तिभिराशीर्भिः
कुशलानुयोगपुरोगमैस्समुचितैर्बहुभिरुपचारवचनैश्च संवर्धितेन निज-
निदेशाम्रेडनाधिरूढतुरगेण तेन सनत्कुमार इव शतक्रतुना परिष्क्रिय
माणश्शनैरशनैर्नगरमगाहत ॥
 
तेजोविशेषादतिदुर्निरीक्षं, रथ्यासुरथ्यासु, कुतूहलेन ।
तत्रैनमालोकयतां जनानामुच्चावचं भाषितमेवमासीत् ॥
अनेन खलु भद्रमेकैकतया लक्ष्यमाणास्सुखेन विजयलक्ष्मी-
 
स्वयंवररमणा भवेयुः ॥
 
इत्यादि पौरवचनं निखिलं च शृण्वन्वीक्षाभिरेष विलसत्करुणाकरभिः ।
व्याकीर्णनव्यमृदुपुष्पपटीरचचवीथीरगाहतमेडुरवैजयन्तीः ॥
 
तदनु समठसागात् क्ष्माधिपेन प्रदिष्टं स्फटिकमणिमयूखश्शार सोपानमार्गं ।
विपुलकनकवेदविद्रुमस्तंभराजिं मृगपतिरिव कुंजं मेदिनीवरस्य ॥
 
तन्न व्यराजत समस्ततमोनिहंता मुद्रासने स निवसन्मुनि सार्वभौमः
मातबिंब इव मार्गवशेन मंद मंदाकिनीपुलिनमध्यभुवं प्रविष्टः ॥
अर्चयंतमिममर्ध्यपूर्वया भागधेयपरिणाममात्मनः ।
पार्थिवस्सपदि पर्यपूजयत्पांडुसूनुरिव बादरायणं ॥