2026-03-04 07:06:09 by ambuda-bot

This page has not been fully proofread.

५७
 
मध्यमभागेन
 
पद्भ्यामेव संचरमाणः सुमेरुतटरुहेण सुपर्णाकारेण लक्ष्णपर्वणा समु-
ज्वलद्भगवत्तेजःप्रपंचासहनतयादूरमपसृतेनोर्ध्वभूतेन
वज्रोपलशकलस्थपुटितकुप्य शेख रितकोटिद्वयेन दंडेन परिशोभमानाया
दृढनियंत्रितरक्तपटपट्टवितानोपरिभागायाः कनकशिबिकायाः मध्य-
मध्यासीनं करतलोत्तानितपुस्तक विभागावलोकनजागरूकमनवरत
चाल्यमान कुंचमंजसो परिसरमतिनिबिडतया कृच्छ्रलभ्यमानपदाव-
काशंया शरदंबुदविशद विशदोष्णीषसंव्यानवसनया फणितिविलासस्य
भरनैपुणीं याचमानयेव त्रिपथगया बहलयाब्रह्मपरंपरया सेव्यमानं
कलितमधुरस्वरगभीरिमतृणीकृत किन्नाराणां गांधर्वनिगमपारावारपा-
रहश्वनामुच्चावचां नारायणभुजापदानगाधामुच्चैरुद्रायतां विस्मयनी-
यानु (भावस्स भगवान् व्यासयोगी) 1 । अमुष्य किल वाहनमादि-
भिक्षोरिव समुद्वहंति शैबिकनिर्विशेषमवसरेषु स्मरणमात्रकृत-
सन्निधानानि विनमंति महाभूतानि । अनेन खलु पुरा तीर्थपर्यटनेषु
अधिकांतारमपहरतेत्युदितमात्रात्सविभ्रमाः कुंभीलका अपि दारुणाः
प्रेष्या इव केवलं तरुपल्लवानि चिरमुपाहरन् । अस्य ननु त्रिवासरोप-
वासश्रांतिजुषो भगवान्बालगोपालः वत्सलतया सुहृज्जनस्येव रहसि
साक्षादागत्य सुधामंडलनिर्विशेषं नवनीतपिंडं हस्ते दधानः मणि
मंजीरझंझलितमनोहरं तांडव विलासमदर्शयत् । अस्मै किल कृत-
निर्मित्सवे चतुराननायेव प्रेमभारेण साक्षात्सन्निहिता भगवती भारती
महनीयमहः प्ररोहां कामपि मणिलेखिकां व्यतारीत् । एतस्य खलु
भवंति वर्षावग्रहयोः कटाक्षवीक्षावशंवदामेघाः । अस्मै हि जना
#+ भावं तं भगवान् व्यासयोगिनमपश्यत् ]