vyasayogicaritam /266
This page has not been fully proofread.
५६
गरेणेवोपलीकृतमुन्नमित कर्णपल्लवमुनिमषित हेषारवमुत्तुंगधवलतुरंग-
मधिरूढः किरीटतटघटितमुक्तामणिनिकरसमुत्पतितेनेव प्रभाचक्रवा-
लेन सितातपवारणेन संपादित च्छायः कमलकर्णिका कर्णपूरेणेव राज्य-
लक्ष्म्याः कुंचेन कनकनालेन परिवीज्यमानस्सविधवर्तिभिर्विविधनटन
लालनपरतंत्रघोटकधावनप्रकंपमान कर्णावतंसैरा प्तैर्महाप्रधानैर्निविडित
परिसरोविशालविमलोष्णीषकलितैरामुक्तकंचुकैराविष्कृतहार मणिनिष्क-
परिपाकैरुद्गमितचलांचलभुजांचलैर्मागधैः पार्श्वे सहेलमुच्चैः पापठ्यमान
विक्रमबिरुदमाकर्णयन् भुजारोपित निखिलवसुमत्यतिवेलभारतया व्यप-
गतश्रमैस्सनृपनिकरैस्सेव्यमानो बहुभिः कुलगिरिभिर्विकटकर टिकटाह-
निश्रुतमदप्रवाहस्तंबेरमैरनुरुध्यमानः परिस्फुरत्तपनबिंबप्रतिफलनान्य-
परोक्षितप्रतापज्वलनानीव विक्कुबाधिधारयद्भिरायुधानिकालकवचनि-
चोलित स्कंधैरंबर संचारलग्ननवमेघखंडैरिव चारणगणैरपरिमितयेधैः
परिवेष्ट्यमानः सततपरिचितपरिश्रमक्रीडनादतिमांसलितावयवैर्विचि-
त्राणि मंडलवलयानि विस्तारयद्भिः किलकिलामुखरमुखैः फलकपाणि-
भिर्देदीप्यमानपुरोमार्गोबृंहितेन द्विरदानां हेषितेन हयानां क्ष्वेलितेन
योधानां आलोककोलाहलेन दंडिनां भांकारेण भेरीणांघणघणेन नि-
स्वाणानां धुंधुमितेन महलानां जुजुमितेन डिंडिमानां झंकारेण
झर्झरीणां घुंघुमितेन शंखानां कूजितेन वेणूनां कलकलेन काहलीनां
शब्दाद्वैतामिव जगतीं कुर्वाणः स नरदेवो नगरादतीत्य पदवीं गव्यू -
तिमात्रां पुरुषोत्तमशंकया सेवासमागतयोरिव दुग्धाब्धितरंगयोः पार्श्वे
धोधूयमानयोस्समाह्वयतोखि कृपाभरेण तस्य भगवतो व्यासयोगिनः
श्वेतचामरयोर्युगलं दूरादेवावलोकयामास । तुरंगमादवततार । स च