vyasayogicaritam /265
This page has not been fully proofread.
नित्यानामिव न कुत्रापि छायादृश्यंते ॥ यात्र च निशि सौधात्रमणि-
कुट्टिमजुषो मुग्धवारहरिणीदृशो मर्गिवशादासन्नानि तारकदंबकानि
मौक्तिकधिया कुतूहलिन्यः करकमलेनादायादायजंगमतयासभीतिससं-
भ्रमं प्रतिमुंचति ॥ यत्र च रमणीनां चरणतलरागपराकृतरामणीयक
भरैर्मित्रकरामर्शाश्वासितैरपि विदलितहृदयैरनवरतं सरोगैह्रीयते
सरोरुह निवहैः ॥
यत्रांगनानां लपनार्थितश्रीर्निरुद्धमंदस्मितकौमुदीकः ।
विभावरीशोपि सृजत्यजत्रं प्रालेयलक्ष्येण सवाष्पधारां ॥
लीलागतैर्यत्रविलासिनीनां प्रावीण्यसिध्यै बहुशो नुनीय ।
स्वजातिभिचोदित एव कश्चिद्रह्माणमद्यापि बिभर्ति हासः ॥
इतस्ततस्संचरतां जनानां रथ्यासु यस्यां बहुलक्षपासु ।
वितर्दिकास्तंभमणीमयूखः करोति नित्यं करदीपकृत्यं ॥
मंदार सौरभ्यमनोहराणि संकंदनाराम सहोदराणि ।
यस्यास्समीपोपवनानि 'विसिष्मिये व्यासयति महात्मा ॥
ततः नरसमहीपालः क्रमेण नगरोपकंठमागच्छंतमेनं भगवंतं
व्यासयोगिनं सचिवमुखादाकर्ण्य संबध्यमानकुतूहल: प्रत्युज्जगमिषया
सराजलोकः सरभसमासनादुत्तस्थौ ॥ तावदत्र संभ्रमैस्सज्जीकृत्य
करद्वयधृतखलीनगुणैरसकृत्क्रियमाण मृदुतरचपेटास्पालनस्सांत्वनैस्सा-
दिभिस्सपदि समुपनीतं चटुलतरखुरपुटतया जुगुप्समानभूतलस्पर्श
वपुष्मंतमिव सुकृतराशिं वदनराजीवपराजिततया तुरंगभूयमंगीकृत्य
वोढुमागतमिव सारंगचिह्नं गंडोपलमिव कैलासशैलस्य न्यासीकृतरथ्या-
मिवार्थस्य विजययात्रा समुत्थापितरजःपुंजपूरणचकितचकितेन दुग्घसा-