2026-03-04 07:06:07 by ambuda-bot

This page has not been fully proofread.

५४
 
अथ नरसभूपालस्याप्तैरमात्य मदावलैस्सयतिवृषभश्शश्वत्संप्रा-
र्थ्यमाननिजागमः भुजगनगरीं भूमिं भित्वोपरीवसमुत्थितां विपुल
वीथिकां हृद्यां विद्यापुरीं समुपागमत् ॥
 
स्वेन गाढमुपगूहमान पापपयोपरि लुठत्तरंगया ।
या विडंबयति जंभभेदिनस्स्वर्धुनीलहरिभूषितां पुरीं ॥
 
वाराशेस्सुतयानिशं सुरभितं वक्षः प्रदेशं वह
मंदीकुर्वदभंगुरांग महसा वालाहिकीदुर्मदं ।
उद्दामां शुभसंपदं निजजुषा मुल्लोलकल्लोलय
तेजोयत्रपरंपरं विजयते श्रीविट्ठलेशाभिदं ॥
 
चलदूंगावीचीकलकलितसौभाग्यभरितं
विहायस्स्वं यस्यां विपुलमपि कैलाससदनं ।
स हेतोः कस्माद्वा सकलजगदीशोपि भगवान्
विरूपाक्षः साक्षाद्विशदयति साम्राज्यपदवीं ॥
 
यातुंगस्थिरभर्मगोपुरांतराळप्रत्युत्पस्फुटबहुमौक्तिकावलीनां ।
भूयिष्ठैर्बहिरभिसारिभिर्मयूखैः कौबेरी हसति पुरीमिव प्रकामं ॥
यस्यामुदारनृपमंदिर चंद्रशालावातायनेदरपरिक्रमगाढलग्नां ।
दीपाग्रधूममपिकां शिशिरांशुबिंबे मोहात्कुरंग इति मूर्खधियो वदंति ॥
हर्म्यावलीषु सह सारसलोचनाभिर्निद्राजुषां प्रतिविभातमधीश्वराणां ।
वातायनादुपगतो मरुदापगायाः वैतालिको भवति सांद्रमरुत्किशोरः ॥
 
अलंकृतानां हरिणेक्षणानां दिने दिने यत्र च दीप्रभासां ।
कपोलभागाः कलधौतकांताः परस्परं दर्पणतां भजते ॥
 
यस्यां धरणीतलखचितमणिशिल। फलकानामुत्पततादीप्तिपटलेन
 
सततमंबरपथेन संचरमाणयोः पुष्पवतोरवतरता रोचिषा च प्राणिनां