vyasayogicaritam /263
This page has not been fully proofread.
५.३
कानां शुकपोतपक्षतिसुषुमावंचकानां नवमणिकिरणजागरणमांस लित
फलफल्यतृणीकृतचिरंतनमानस्य चतुरंतमानस्य शरदुदयनिर्णेजित
कौमुदीपूलिकासुकुमारयोर्धवलचामरयो बहुलरागप्रकटनविपंचिकायाः
कुंचिकायाः निस्सीमप्राभवदात्रीणां कनकपात्रीणामगणनीयगुणग्रा-
माणां ग्रामाणामनवरतमतिथिजनपूजन कर्मठानामितरेषामपि (बी)
यसां वस्तूनां निचयमदात् ॥ तस्मिंश्च विनीतवतिविशेषादार्येप्रयुज्य
कुशलगर्भितामाशिषमंबुधेरिव ततोराजभवनात्कालमेघइव सभगवान्वर्षे
ra कलापिनइव कलाविदस्संमोदयन् गिरितटमिव मठालयमध्य-
तिष्ठत् !!
जित्वैवमेव बहुधा परिपंथिवर्गं प्रोद्दामकीर्तिनिबिडोरुनभःकटाहः ।
संस्थापयन्सकलधर्मकुलं यतींद्रस्तत्रावसत्सबहुलाश्शरदः सुखेन ॥
ततस्सनरसिंहभूपतिः अपरमिवमारं कुमारं समग्रगुणं तं
मारायनामानमधिराज्ये समभिषिच्य कालपरिणामेन जेतुमिव विक्रमेण
शक्रं द्राघीयसा शुभचरितसोपानपथेन दिवमध्यरुक्षत् ॥ तमपि स-
भगवान्यायेन पथा संचरमाणं प्रचंडरिपुमंडल विहरणशमितदोर्दंडचंडि-
मकंडूविशेषं कोविदकुलसेवनकुतूहलिनं गुरुरिव कुलिशपाणिं क्ष्माप-
तिमनुगृण्हन्तरंगिणीमिव राजहंसो मारुतमिव मलयमेखलातरलमणि-
रिव हारलतां शशांकइव शंकरमकुटं, तां पुरीं चिरादलमकरोत् ॥
॥ इति सोमनाथकवि विरचिते व्यासयोगिचारते चतुर्थोल्लासः ॥
+ [बंही]