2026-03-04 07:06:07 by ambuda-bot

This page has not been fully proofread.

५१
 
तदनु महापरिणाहेन मृगपतिपोतसटाव्यापृतेनेव पेशलेन
चित्ररल्लकदंशितोपरिभागेन शतमखचापपटलीशलाकानुबंधेनेव शारदा
भ्रखंडेन सुकुमारतुलभरिततुंग दुकूलपरिधानशेखरितभागेन धवलकंब
लेन सनाथीकृतं भुक्त्वा स्थानमंटपमधिरूढः कृततीर्थसेवनः भगवान्
शिश्रूषया समागत्य सेवमानानां सुधियां केनचिदतिसमीपोपविष्टेन
मधुरस्वनेन पवनलिपिग्रहणेन विदुषा शिष्येण पठ्यमानस्य महतो
भागवतवाक्यसंचयस्य तत्वभावमर्थतात्पर्यं बोधयन्नेव वासरमनैषीत्
 
तस्योदंतं जगदुपकृतौ योगिनो जागरूकं
मध्येवारांनिधिमधुरिपोर्मास्ताशींद्र मंचे ।
निद्राभाजः कथयितुमिव द्वेषिणो दानवानां
प्रापत्कूटं सपदि तपनः पश्चिमक्ष्मारस्य ॥
 
विहितसकलसंध्याकर्मणश्चेतसा तमशममृदुभाजो ध्यायतो वासुदेवं ।
जनयितुमतिनिद्रामक्षमा तस्य भिक्षो रजनिरपययौ सा तर्जितेव क्षणेन ॥
एवमुपयातेषु बहुषु पुंखा नुपुंखभूपति बहुमानेषु दिनेषु ॥
कदाचिन्निर्दयाभ्यामर्दन विहारसह नदोर्दंडैस्सामंतनृपशार्दूलैस्संमर्दितां
विवेकरंहस्विभिरमात्यसिंहैः परिबृंहितां विविधानां पुरोधसामुपरोधेन
समेोधितसंबाधामत्यद्भुतयुक्तिभिस्तटस्थैर्विद्वद्भिरुपासीनां परिपंथिगिरि
घटापक्षविक्षोभणपविभिः कविभिः संभावितामपारविस्मयभारोदरैः
पौरैः परिपूरितामगणनापदैर्जानपदैरासादिताममंदसुंदरस्तुतिकंदलनंद
नीयैर्वेदिभिस्तुंदलितां प्रतिभटविपिनदावपावकैस्से व कैरेकी कृता मा-
स्थानींमहीयसीं सुधर्मामिवसुरपतेरधिवसतो नरपतेर्नरसिंहस्य समक्षं
चिरादुक्तधर्मातितिक्षवःकामिनइव कलितावलेपाः, करटिनइव कल्लो -