2026-03-04 07:06:06 by ambuda-bot

This page has not been fully proofread.

नृपनलनहुषादेन तिमार्गाध्वनीन
 
सकल इव दिगंतैः केवलं कीर्तिभावैः ।
 
भुजजितभुजगस्त्वं भूप, तेना (वि) (शेषे
गुरुमपिवचनानां कोमलानां महिम्ना ॥
 
इत्यनुगृह्णत्येव भगवति महानुभावे व्यासयोगिनि घटिकावि-
भागप्रकटनपटुः पटहनिध्वानबंधुर्मध्यंदिनसमयशंकी शंखस्य गंभीर-
ध्वनिरुदजृंभत ॥ निशम्यतावदुचितज्ञेन भगवतोऽतिक्रामति देवतारा-
धनसमय इति विज्ञाप्य सह राजलोकै रुत्थितेन प्रांजलिना दूरमुपगम्य
तेन वसुधाधिपेन विसृज्यमानो विबुधैरावेष्ट्यमानो मंत्रिभिराभाष्यमाणः
पुरोहितैरालोक्यमानश्शिप्यैरनुर्नत्यमानो वंदिभिरभिष्ट्यमानः पौरजनैर-
भिवंद्यमानो ब्रह्मसंघैस्स भगवान्व्यासयोगी भुवनबंधु ( नगेन) + साचवा-
धिपेन निर्दिष्टनिर्दिष्टनरपतिप्रहिताभिर्विविधाभिस्सपदातिभिस्समग्राम
तिविशालामने कशालाबद्ध विताना (ना) मपरिमितस्थूणामभ्रंक सौध शिख
राममृतमयवापिकामभिनवामपरामिव वैकुंठभुवमवनितलमवतीर्णामिव
पितामहावसतिं शाश्वतीं मठोपकार्यां शनैरशनैः प्राविशत् ॥
 
पदार्थसंधैर्ललितैः परिष्कृतं प्रवृत्ततालध्वनिलक्षणांचितं ।
कविप्रबंधं यशसेवनायको विगाह्य भूना समठसमैधत ॥
 
तलोदारै रुचितवचनै स्ताननुज्ञायसर्वान्
स्वस्वावासं प्रति सविनयं कल्प्यमानप्रणामान् ।
पूतैस्त्रातस्तदनु सलिलैः पूजयित्वा स देवं
साकं भिक्षामकृत बहुभिः कोविदग्रामणीभिः ॥
 
+ ति नाम्ना