2026-03-04 07:06:06 by ambuda-bot

This page has not been fully proofread.

४९
 
जनितामिव मुक्तां घनतरकारुण्यरसदुग्धरसपिंडितामिव गंधगुलिकां
अंजलिना सबहुमानमादधानो लोचनस्पर्शपुरस्सरं शीर्षे निधाय
भक्तया स्वयमेव दत्तहस्तावलंबनो महीपतिः तं तापसकेसरिणं
गिरिशृंगमिव तुंगकृष्णाजिनोत्तरासंगं वेत्रासनमारोप्य विधिवदभ्यर्च-
यामास [ तदनु तदनुमत्या स्वयमपि दूरतः कृता (त्मानो) पवेशो विनय
विकचां वाचमवोचत् ॥ भगवन्प्रतिसमुनिमषितं मम प्राक्त (नी ) नसुचरि
तसंदोहेन । अयं खलु पलायनसमयो मदीयस्य दुरितस्य । शोधनो
पलेनेव मणिमुकुरमद्यतनेनभगवदागमनेन निर्मलितमात्मकुलं ।
अधुनाविमुंचति ममचक्षुश्चिरेणभगवदनुभाववर्णनाकर्णनसमुदीर्णसुख
पूर्णयो *रीय, भुवनमिव भगवदधिष्ठानत्वेन सकलमुनिवृंदवंदितस्य
सनंदनस्य सन्निधानेन संदानितंबिभिद परमानंद सत्यलोकस्य ॥
मन्येहमिदानीं भगवतो दर्शनादेक तमविरह विधुरमतिस्निग्धमर्यमवर्ग ॥
 
इत्यूचुषो नरपतेर्नरसिंहभावमाकार गोपिकलयन्निव भास्वराभिः ।
दंतावलीविसृमर घुतिपूलिकाभिः संप्रत्यवोचत मुदा यतिसार्वभौमः ॥
 
राजन्नैसर्गिकीखलुतवान्वयस्य परार्ध्यसमाधीनां साधूनामेवंविधा
समाराधनविधिबद्धा श्रद्धा ॥ किंब्रूमस्ते, विचित्राणि चरित्राणि प्रवर्त-
यंति यानि देशेषु कंटकारीणामेककालनाशं ध्रुवं । दर्शयति यानि
सांपरायकनिहतरिपुमहीपालेषु युगपदेव वयसां वियोगयोगौ ॥ कारयति
यानि द्वीपांतरेषु प्रतापचकितसामंतकरांशानामेकदैवछेदलाभौ ॥
अपारयंति यानि वैरिनगरेषु सममेव केतूनाममोकामोकौ ॥ किंबहुना ॥
+ [[मो] * कर्णयो
 
4